"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः
Content deleted Content added
विषयः योजितः |
विषयः योजितः |
||
पङ्क्तिः ७:
अस्य विश्वस्य चेतनाचेतन-सूक्ष्मासूक्ष्म-चराचराणि सकलवस्तूनि सर्वव्यापकेन परमात्मना व्याप्तानि । तस्मात् प्राप्तानि सर्वाणि अपि वस्तूनि ईशप्रसादभावनया उपयोक्तव्यानि । अस्मिन् जगति कर्तव्यनिष्ठया कर्म कुर्वन्तः शतं वर्षाणि जीवेम इति सर्वेषाम् इच्छा स्यात् । अनेन मार्गेण गम्यते चेदेव मुक्तिः । कर्मदोषेण निर्लिप्तैः भाव्यं चेदपि अयमेव मार्गः । आत्मज्ञानाय प्रयत्नम् अकुर्वन्तः मानवाः अज्ञानान्धकारावृतम् आसुरलोकं प्रविशन्ति । इदं भवेत् आत्मघातसमम् ।
====आत्मनः स्वरूपम्====
आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । आत्मा अत्यन्तं तेजस्वी अखण्डः अशरीरः शुद्धः निष्पापः च विद्यते । स्वीयसङ्कल्पमात्रेण सः सर्वासु दिक्षु विस्तृतः भवति । सर्वज्ञः सर्वव्यापकः सः स्वयम्भू परमात्मा अनन्तकालपर्यन्तं सकलसृष्टये यथायोग्यान् नियमान् विधत्तवान् अस्ति ।
अस्मिन् जगति केचन व्यक्तसृष्टेः ज्ञानमात्रं प्राप्य विषयसुखवाञ्छया तस्य एव उपासनं कुर्वन्ति । तैः अज्ञानान्धकाराः अवश्यम् अनुभोक्तव्याः भवन्ति । केचन व्यक्तसृष्टिः मिथ्या इति भावयन्तः अव्यक्तोपासकाः भवन्ति । ते अपि अज्ञानान्धकारे पतिताः भवन्ति । व्यक्ताव्यक्ताः पार्थक्येन पूर्णसत्यभूताः न । ते सत्यांशमात्राः । उभाभ्यां युक्तः परमात्मा पूर्णसत्यः ।
==बाह्यसम्पर्कतन्तुः==
|