"ईशावास्योपनिषत्" इत्यस्य संस्करणे भेदः

विषयः योजितः
No edit summary
पङ्क्तिः ८:
====आत्मनः स्वरूपम्====
आत्मा अचलः, अखण्डश्च । मनसः अपेक्षया वेगवान् । देवताभिः अपि अगोचरः । सर्वव्यापके तस्मिन् एव वायुः तन्नाम तदीया विश्वनिर्माणशक्तिः चलनात्मकं कर्मशक्तिं स्थापयति । सः चलः अचलश्च । दूरः समीपश्च । सः सर्वेषाम् अन्तर्बाह्यव्यापी विद्यते । यदि साधकः सर्वेषु भूतेषु स्वात्मानं पश्यति अपि च स्वस्मिन् सर्वं जगत् पश्यति सः शोकाभावं प्राप्नोति । आत्मा अत्यन्तं तेजस्वी अखण्डः अशरीरः शुद्धः निष्पापः च विद्यते । स्वीयसङ्कल्पमात्रेण सः सर्वासु दिक्षु विस्तृतः भवति । सर्वज्ञः सर्वव्यापकः सः स्वयम्भू परमात्मा अनन्तकालपर्यन्तं सकलसृष्टये यथायोग्यान् नियमान् विधत्तवान् अस्ति ।
अस्मिन् जगति केचन व्यक्तसृष्टेः ज्ञानमात्रं प्राप्य विषयसुखवाञ्छया तस्य एव उपासनं कुर्वन्ति । तैः अज्ञानान्धकाराः अवश्यम् अनुभोक्तव्याः भवन्ति । केचन व्यक्तसृष्टिः मिथ्या इति भावयन्तः अव्यक्तोपासकाः भवन्ति । ते अपि अज्ञानान्धकारे पतिताः भवन्ति । व्यक्ताव्यक्ताः पार्थक्येन पूर्णसत्यभूताः न । ते सत्यांशमात्राः । उभाभ्यां युक्तः परमात्मा पूर्णसत्यः । क्षराक्षरयोः समन्वयेन यः परमात्मनः साक्षात्कारं प्राप्नुयात् सः सृष्टेः ज्ञानेन मृत्युलोकं तीर्त्वा अव्यक्ततत्त्वस्य ज्ञानेन अमृतत्त्वं प्राप्नोति
तेजोयुक्तस्य सूर्यस्य मुखमण्डलं स्वर्णवर्णप्रकाशेन यथा आवृतं वर्तते तथा परमात्मनः सत्यस्वरूपम् अनेन मोहकेन विश्वेन विलोपितमस्ति । अतः साधकस्य प्रार्थना वर्तते - ’हे सर्वपोषकज्ञानसूर्य ! सत्यदर्शनाय इमां मोहकमायाम् अपसारयतु । ज्ञानप्रकाशं प्रसारय । भवति मया दृश्यमानः ज्ञानमयपुरुषः एव मयि अपि वर्तते । शरीरं नश्येत् किन्तु प्राणवायुः स्वतन्त्रः वर्तते’ ।
’हे ! मनः कृतं कर्म स्मर्यताम् । हे अग्निदेव, मां सन्मार्गे प्रवर्तय । यतः कर्म-कर्मफलयोः ज्ञानं भवति विद्यते । पापमुक्तं करोतु । सहस्रशः नमस्काराः ।’ इत्येषः उपनिषदः सारः ।
==प्रमुखाः शब्दाः==
* असुर्य - असुराणाम् अन्धकारयुक्तस्य
* अर्शत् - गच्छत्
* स्वित् - किञ्चित्
* अपः - कर्मबीजरूपाणि कर्मशक्तयः
* कवि - मन्त्रद्रष्टा
* सम्भूति - अव्यक्तम्
* असम्भूति - व्यक्तम्
* धीराः - धिया राति इति
* क्रतु - सङ्कल्पशक्तिः
* राय - सत्फलम्
* वयुनानि - कर्मफलानि
==ईशावास्योपनिषदः महत्त्वम्==
 
* इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति । अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते ।
* प्रतिस्वरं तत्त्वार्थयुक्तः विद्यते । अस्य अपारं मन्त्रसामर्थ्यं विद्यते । तेषां मन्त्राणाम् अभ्यासेन मन्त्रद्रष्टॄणाम् अध्यात्मिकस्थितिः प्राप्तुं शक्या ।
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/ईशावास्योपनिषत्" इत्यस्माद् प्रतिप्राप्तम्