"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q847918 (translate me)
पङ्क्तिः १६४:
== प्रमेयतत्त्वसमीक्षा ==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।
शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।
 
== आत्मविचारः ==
आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरुपिणं कर्मस्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्