प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
==मुख्यविषयाः==
===सृष्टिप्रक्रिया कारणवादः च===
ब्रह्म मयोपाधिना सहितः ईश्वरो भूत्वा जगतः सृष्टेः कारणीभूतः अस्ति । जगतः सृष्टिः इच्छापूर्विका<ref>बहुस्यां प्रजायेय- छान्दोग्योपनिषत् ६.२.३ </ref> । अस्यां सृष्टिप्रक्रियायां ईश्वरः निमित्तकारणम् भवति । ईश्वरस्य सङ्कल्पेनैव आदौ आकाशस्य समनन्तरं क्रमशः वायोः, तेजसः, जलस्य, पृथिव्याः च पञ्चभूतानां सृष्टिः अभवत् । <ref>jhskjahshashjतस्माद्वा एतस्मादात्मन आकाशः संभूतः॥
आकाशाद्वायु वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी, पृथिया ओषधयः । तैत्तिरीयोपनिषत् (ब्रह्मानन्दवल्ली)१.१</ref> एतेषु आकाशे शब्दगुणः, वायौ शब्दः स्पर्शश्च, तेजसि शब्दः,स्पर्शः, रूपञ्च , जले शब्दः, स्पर्शः, रूपम्, रसश्च, पृथिव्यां शब्दः, स्पर्शः, रूपम्, गन्धः च गुणाः भवन्ति । एतानि पञ्चभूतानि मायया सहितानि ।

* ===सत्यत्वं ख्यातवादः च===
* मोक्षस्वरूपम्
ज्ञानानां विषये दार्शनिकाः विवेचितवन्तः । पञ्चविधख्यातयः निरूपिताः सन्ति । आख्यातिः, असत्ख्यातिः, आत्मख्यातिः, अन्यथाख्यातिः, अनिर्वचनीयख्यातिः च । मीमांसकानाम् आख्यातवादः, माध्यमिकबौद्धानाम् असत्ख्यातिवादः, योगाचार्याबौद्धानाम् आत्मख्यातिवादः, तार्किकानाम् अन्याथाख्यातिवादः, अद्वैतिनाम् अनिर्वचनीयख्यातिवादः च । माया सत्, असत्, सदसत्, इति निर्वचनं न शक्यते । अतः अनिर्वचनीयम् अस्ति माया । मायायाः स्वरूपं [[शङ्कराचार्यः]] विवेकचूडामणौ वर्णितवान् अस्ति ।

:'''सन्नप्यसन्नप्युभयात्मिका नो'''

::'''भिन्नाप्यभिन्नाप्युभयात्मिका नो''' ।

:'''साङ्गाप्यनङ्गाप्युभयात्मिका नो'''

::'''महाद्भुताऽनिर्वचनीयरूपा ॥''' इति

* ===मोक्षस्वरूपम्===
चतुर्विधपुरुषार्थेषु मोक्षाख्यः अन्यतमः । मोक्षः आत्मनः सहजस्वरूपम् । स्वाभाविकतया जीवः नित्यशुद्धबुद्धमुक्तः । मोक्षः प्राप्यः उत्पाद्यः वा न । बृहदारण्यकोपनिषदः शाङ्करभाष्यस्य [[सुरेश्वराचार्यः]] व्याख्यानं कृतवान् । तस्मिन् मुक्तेः स्वरूपम् निरूपितवान् अस्ति <ref> राजसूनोः स्मृतिप्राप्ता व्याधभावो निवर्तते ।
कथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ॥ (बृहदारण्यकोपनिषद्-भाष्यम्, सुरेश्वराचार्यस्यवार्तिका २.१.२०) </ref>, कश्चित् राजकुमारः बाल्ये व्याधकुले प्रवृद्धः। कालान्तरे नाहं व्याधः राजकुमारोऽहम् इति ज्ञातवान् । तथैव, जीविः '''तत्त्वमसि''' इत्यादिभिः महावाक्यैः अज्ञाननिवृत्तिं सम्प्राप्य, जीवब्रह्मणोः अभेदं ज्ञात्वा च स्वस्वरूपभवनम् मोक्षः । सहजस्वरूपस्य अज्ञानावरणनिवृत्तिः एव वेदान्तस्य लक्ष्यम् इति शङ्कराचार्यः प्रतिपादितवान् अस्ति । <ref>अस्य अनर्थहेतोः प्रहाणाये आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥ "ब्रह्मसूत्र" शाङ्कराभाष्यम्, उपोद्घातः (अध्यासप्रकरणम्)</ref>

* माया
* अध्यासः
| श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in || [[देहली]]|| बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६

==सम्बद्धलेखाः==
*[[अद्वैतवेदान्तस्य ग्रन्थाः]]
*[[शङ्कराचार्यः]]

==आधाराः==
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/250960" इत्यस्माद् पुनः प्राप्तिः