"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
 
==इतिहासः==
अस्य द्वैतदर्शनस्य प्रवर्तकः श्रीमध्वाचार्यः । श्रुति-स्मृति-इतिहास-पुराण-उपनिषत्-गीतासु विद्यमानान् द्वैतमतस्थापनार्थम् अनुकूलान् अंशान् परिगृह्य युक्त्या एतेषां याथार्थ्यं च निर्धार्य मध्वाचार्यः द्वैतदर्शनस्थापनम् कृतवान् । अस्यानन्तरं टिकाचार्यः इत्येव प्रसिद्धः श्रीजयतीर्थः मध्वाचार्येण रचितेभ्यः ग्रन्थेभ्यः व्याख्यानम् अकरोत् । टिकाचार्यः स्वतन्त्रतया अपि ग्रन्थान् रचितवान् अस्ति । श्रीव्यासतीर्थः स्वद्वैतदर्शनस्य महतीं प्रपञ्चितवान् अस्ति । वादिराजः स्वप्रौढभाषया, उत्तमदृष्टान्तैः च द्वैतदर्शनस्य माहात्म्यं निरूपितवान् अस्ति । विजयेन्द्रः नैकान् वादग्रन्थान् रचितवान् अस्ति । राघवेन्द्रतीर्थः, रघूत्तमतीर्थः, विजयध्वजतीर्थः, सुधीन्द्रतीर्थः, सत्यधर्मतीर्थः, रघुनाथतीर्थः, जगन्नाथतीर्थः, सुमतीन्द्रतीर्थः, यादवार्यतीर्थः, बिदरहळ्ळि श्रीनिवासाचार्यः च नैके यतयः गृहस्थाः च द्वैतदर्शनस्य विफुलसेवां कृतवन्तः । श्रीमद्ध्वाचार्यः (क्रि.श. १२३८ तः १३१७) द्वैतदर्शनस्य प्रवर्तकः । अस्य कालात् पूर्वमपि द्वैतदर्शनम् आसीत् । नैके यतयः पालिताः इति । मध्वाचार्या अच्युतप्रेक्षतीर्थः सान्यासदीक्षां दत्तवान् । अस्य पुरुषोत्तमतीर्थः इत्यपि नाम अस्ति । एषः अद्वैतदर्शनस्य निष्ठः आसीत् । दीक्षायाः अनन्तरं गुरुः प्रप्रथमतया विमुक्तात्मेन रचतं इष्टसिद्धिनामकं ग्रन्थं प्रवचनाय सूचितवान् मध्वाचार्याय सूचितवान् आसीत् । अनेन ज्ञायते यत् द्वैतदर्शनस्य साम्प्रदायिकग्रन्थः नासीत् इति । अस्य दर्शनस्य सथापने वेदव्यासस्यैव प्रेरणा, सः एव मम गुरुः च इत्यपि मध्वाचार्यः स्वयमेव उक्तवान् अस्ति।
 
==मध्वाचार्यस्य ग्रन्थाः==
मध्वाचार्यस्य प्रणीताः सप्तत्रिंशत् (३७) ग्रन्थाः अधो निर्दिष्टाः
* अनुव्याख्यानम् (Anu Vyakhyana)
* न्यायविवरणम् (Nyaya Vivarana)
* अणुभाष्यम् (Anu Bhashya)
 
===उपनिषद् भाष्यग्रन्थाः ===
 
* ईशावास्योपनिषद्भाष्यम् (Ishavasya Upanishad Bhashya)
* केनोपनिषद्भाष्यम् (Kena Upanishad Bhashya)
* कठोपनिषद्भाष्यम् (Katha Upanishad Bhashya)
* मुण्डकोपनिषद्भाष्यम् (Mundaka Upanishad Bhashya)
* षट्प्रश्नोपनिषद्भाष्यम् (Satprashna Upanishad Bhashya)
* माण्डूक्योपनिषद्भाष्यम् (Mandukya Upanishad Bhashya)
* ऐतरेयोपनिषद्भाष्यम् (Aitareya Upanishad Bhashya)
* तैत्तिरीयोपनिषद्भाष्यम् (Taittireeya Upanishad Bhashya)
* बृहदारण्यकोपनिषद्भाष्यम् (Brihadaranyaka Upanishad Bhashya)
* छान्दोग्योपनिषद्भाष्यम् (Chandogya Upanishad Bhashya)
 
== वेदभाष्यम् ==
 
* ऋग्भाष्यम् (Rigbhashyam)
 
== प्रकरणग्रन्थाः ==
 
* प्रमाणलक्षणम् (Pramānalaksanam)
* कथालक्षणम् (Katha Lakshana)
* उपाधिखण्डनम् (Upadhi Khandana)
* प्रपञ्चमिथ्यात्वानुमानखण्डनम् (Prapancha Mithyatva-anumana Khandana)
* मायावादखण्डनम् (Mayavada Khandana)
* तत्त्वसङ्ख्यानम् (Tattva Samkhyana)
* तत्त्वविवेकः (Tattva Viveka)
* तत्त्वोद्योतः (Tattvoddyota)
* विष्णुतत्त्वविनिर्णयः (Vishnu Tattva Vinirnaya)
* कर्मनिर्णयः (Karma Nirnaya)
 
===माहाभारतसम्बद्धम्===
 
* महाभारततात्पर्यनिर्णयः <ref>[http://web.archive.org/web/20091027143213/http://geocities.com/mahabharata_tatparya_nirnaya/pointers/mbtnpandurangi1.htm Mahabharata Tatparya Nirnaya]</ref>
* भारतनिर्णयः उत यमकभारतम् (Yamaka Bharata)
 
===पुराणसम्बद्धम्===
 
* भागवततात्पर्यनिर्णयः (Bhagavata Tatparya Nirnaya)
 
== स्तोत्रसम्बद्धम् ==
 
* नरसिंहनखस्तुतिः (Narasimha Naka Stuti)
* द्वादशस्तोत्रम् (Dvadasha stotra)
 
===आचारसम्बद्धम्===
 
* कृष्णामृतमहार्णवः (Krishnamruta Maharnava) <ref>[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/4_rellit/vaisn/mdhvkmou.htm Krishnamruta Maharnava]</ref>
* सदाचारस्मृतिः (Sadachara Smruti)
* तन्त्रसारसङ्ग्रहः (Tantra Sara Sangraha)
* यतिप्रणवकल्पः (Yati Pranava Kalpa)
* जयन्तीनिर्णयः (Jayanti Nirnaya)
 
=== अन्यानानि ===
 
* कन्दुकस्तुतिः (Kanduka Stuti)
* न्यासपद्धतिः (Nyasapaddhati)
* तिथिनिर्णयः (Tithinirnaya)
==सारः==
Line १०७ ⟶ १७२:
स्वतप्रामाण्यं - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते। इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते।
मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।
 
 
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्