"यष्टिकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
'''यष्टिकन्दुकक्रीडा'''(Hockey) एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा [[भारतम्|भारतदेशस्य]] राष्ट्रियक्रीडा वर्तते ।
==ऐतिहासिकी पृष्ठभूमिः==
कन्दुकं प्रति विश्वमानवस्याकर्षणमतीव प्राचीनकालादेव प्रवृत्तं प्रतीयते । हस्ताभ्यां पदभ्यांपद्भ्यां कन्दुक-क्रीडनान्याचरन्तः कदाचिदुपकरणैरपि क्रीडितुं विहितोत्साहा बालाः कठोरं कन्दुकं यष्टया ताडयित्वाऽपि खेलनमारभन्त । अस्याः क्रीडायाः प्रारम्भः कदा समजायतेति विषये न सन्ति सर्वेऽपि क्रीडेतिवृत्तविद ऐकमत्यधराः । परं सर्वेषामिदमस्त्यभिमतं यद् ‘दण्डेन क्न्दुकताडन-सम्बन्धिनीयं क्रीडा वस्तुतो विश्वस्य प्राचीनासु क्रीडास्वेकाऽवश्यमस्ति ।’ अतोऽस्याः कल्पनाऽऽदिकालादेव कर्तुं शक्यते । तदा प्रारम्भे केनापि मानवेन वृक्षस्य शाखोत्पाटय सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे ‘यष्टि -कन्दुक-क्रीड’ या रुपं धारितमभविष्यत् ।

केषाञ्चिद् विशेषज्ञानां मतमस्ति यत् सर्वतः प्रथमं यीशोर्जन्मनः २००० वर्ष् पूर्वं फारसदेशेऽनया क्रीडया साम्यं धारयन्ती काचन क्रीडा क्रीडयते स्म । तत एवेयमन्येषु देशेषु प्रासरत । फारसदेशानन्तरं प्रथमं यूनान-देशेनेयं क्रीडात्मसात् कृता । कियदभ्यश्चिदवर्षेभ्यः पूर्वं तत्र यीशुतः ३०० वर्षपूर्वं चित्रमेकं प्राप्तं यस्मिन द्वौ क्रीडकौ हाकीक्रिडाया (बुली सदृश्यां) आरम्भमुद्रायां दर्शितौ स्तः । तयोर्हस्तयोर्थे यष्टिके वर्तेते ते साम्प्रतिक -हाकी-समाने एवाभूताम् । मध्ययुगे फ्रान्सदेशीया यष्टि कन्दुकक्रीडासदृशमेवैकं क्रीडनं कुर्वन्ति स्म । यस्याभिधानं ‘हाहे’ (HOQUE) होकेट इत्यासीत् । तत्रास्य शब्दस्यार्थे ‘मेषपालकस्य यष्टिका’ इत्यस्ति । स्काटलैण्डवासिषु क्रीहेयं ‘शिण्टी’ (SHINTY) नाम्ना प्रशस्ताऽभूत् । तत्रेयं क्रीडा ८००-६०० वर्षेभ्यः पूर्वं प्रचलिताऽऽसीत् । शनैः शनैः रोमदेशेऽपि प्रावर्तत । रोमनसम्राज इंघ्लैण्डवासिन इमां ‘हरबी’ (HURBY) नाम्ना समबोधयन् ।
पङ्क्तिः २६:

==यष्टिकन्दुकक्रीडायाः प्रकाराः==
===१ फील्ड्-यष्टिकन्दुकक्रीडा

===२ ऐस्-यष्टिकन्दुकक्रीडा

===३ रोल्लन्-यष्टिकन्दुकक्रीडा

===४ स्लेड्ज्-यष्टिकन्दुकक्रीडा

===५ स्ट्रीट्(डेक्)-यष्टिकन्दुकक्रीडा

==क्रीडाङ्गणं क्रीडोपकरणानि च==
"https://sa.wikipedia.org/wiki/यष्टिकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्