"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५६:

==नव्यन्यायः==
न्यायदर्शनं द्विविधम् । प्राचीनन्यायः नव्यन्यायः इति । नव्यन्यायस्य विवरणम् अत्र विद्यते ।

'''द्रव्यं गुणस्तथाकर्म सामान्यं सविशेषकम्।'''

'''समवायस्तथाभावः पदर्थाः सप्तकीर्तिताः॥'''

अनया कारिकया ज्ञायते सप्तपदार्थाः सन्ति इति । अत्र कश्चन प्रश्नः, शक्तिसादृश्याद्याः अतिरिक्ताः पदार्थाः सन्ति इत्यतः सप्तैव पदार्थाः कथम् ? तत्तत्पदार्थनिष्ठशक्तीनां तत्तत्पदार्थेष्वन्तर्भाव इति नास्ति शक्तिरतिरिक्तः कश्चित् पदार्थः । एवं सादृश्यं हि नाम तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, यथा- ’चन्द्रवन्मुखम्’ इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताऽह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम् । एवञ्च भिन्नत्वं= भेदः, तस्य अन्योन्याभावे अन्तर्भावः । आह्लादकत्वस्य सुखरूपत्वेन गुणान्तर्भावः । एतदाद्यतिरिक्तस्य च सादृश्यस्याऽभावात् न पदार्थान्तरत्वमिति दिक् ।

===पदार्थाः===
{| class="wikitable"
Line १६८ ⟶ १७२:

====द्रव्याणि====
न्यायनये नव (९) द्रव्याणि उक्तानि । अत्र पूर्वपक्षिणां मिमांसकानां प्रश्नः, तमसः दशमद्रव्यत्वमाशङ्क्य कथं नवैव इति ?
अयमत्र पूर्वपक्षसङ्ग्रहः-

'''तमः खलु चलं नीलं परापरविभागवत् ।'''

'''प्रसिद्धद्रव्यवैधर्म्यात् नवभ्यो भेत्तुमर्हति ॥''' इति चेत्,

तमो आलोकाभावः एव । अतः अस्य अभावे अन्तर्भावः इति । अत्र कारिकाया एवं निरूपितम् अस्ति तमसो दशमद्रयं न इति, तद्यथा-

'''आलोकाभाव एवेदं तमो द्रव्यं न तु स्वयम् ।'''

'''नील-क्रिया-प्रतीतिस्तु भ्रान्तिरेव मन्यताम् ॥''' इति

{| class="wikitable"

Line १७७ ⟶ १८८:
| दिक् || आत्मा || मनः

====गुणाः====
न्यायनये चतुर्विंशतिः (२४) गुणाः उक्ताः सन्ति ।
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्