"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |

पङ्क्तिः १:
[[चित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
मीमांसादर्शनं (Mīmāṃsā) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां
''मन्'' धातोर्निष्पन्नो “मीमांसा” शब्दः पूज्यविचार-यथार्थवस्तुरुप
मीमांसदर्शने वेदविहितं कर्म एव
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य
[[चित्रम्:Yagya at Old Durga Mandir of Banaras 1.jpg|thumb|दुर्गापूजा]]
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरुपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । [[वेदः]] कर्मविधानं करोति ।
== मीमांसाशास्त्रपरिचयः ==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वैतीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेव माचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः
== मीमांसादर्शनस्य आचार्यपरम्परा ==▼
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा `द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः `सङ्कर्षणकाण्ड्’ इति नाम्ना प्रसिद्धा वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।
Line ३० ⟶ २८:
# [[आलेखनः]]
मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।

शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्या अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।

कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।

माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।▼
▲माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।

प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । `बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।▼
▲प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । `बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।

गुरुमतस्यैव आचार्यो महोदधि वर्तते स्म । `नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो द्शमशती मन्यते । नयविवेकमधिकृत्य कालान्तरे वरचराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्था विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति । प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं
== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
“चोदनालक्षणोऽर्थो धर्मः (मी० सू० १-१-२) इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्” (मी० सू० १२-४-४७ ) इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् “स्वाध्यायोऽध्येतव्यः” इति ।

== कुमारिलमतानुसारमधिकरणविवेचनम् ==
Line ७४ ⟶ ७१:
== गुरुमतपदौचित्यविचारः ==
एवमेव “गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयन्नास्त । समये च तस्मिन् एकस्यां फविककायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्तम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । तत्र तु इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्त भवति इति सति पौनरुक्तम् कथमिति प्रभाकरेण पृष्टे विषये
ऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्व्ं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एव्ं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानौमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
== प्रभाकरमतानुसारमधिकरणविवेचनम् ==
== श्रुत्यादीनां प्रामाण्यविचारः ==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०- ३-३-१४) इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्या स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयः सर्वे दुर्दलाः भविष्यन्ति ।

उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य- ‘ऐन्द्राग्नमेकादशकपालं निर्वपेत्’ (तै० स० २-२-११) इत्यादिना इष्टविधानं क्रियते । “इन्द्राग्नी रोचना दिवः (तै० सं ४-२-११)इत्यादि मन्त्रानुसार यथासंख्यपाठानुरोधेन यथाक्रम विनियोगोऽपि उक्तः । एवं तत्तद्वाक्यं तत्तत् स्थानविशेषेण एकवाक्यत्वं भजते इत्यतः स्थानानुमानेन प्रकरणार्थः निश्चीयते । एवं प्रकरणार्थः वाक्ये, वाक्यं लिङ्गे लिंङ्ग श्रुतौ इति परम्परया प्रकरणार्थस्य विनियोगात् वाक्यापेक्षया प्रकरणं दुर्बलं भवति ।

प्रामाण्यवादविचारः –▼
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः वियेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादि शब्दैः व्यपदिश्यते । भावा भावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारण्त्वेन यः वादः अस्ति तस्य् “प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारर्णावषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामरण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः
:'''प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।'''
Line १०२ ⟶ ९८:
:'''प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥'''
इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्य स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।

मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।▼
==वेतस्यापौरुषेयत्वविचारः==▼
▲मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।
इमे ग्रन्थात्मकाः वेदाः अग्न्यादिप्राणविधवेदाः इव अपौरुषेयाः भवन्तीति मीमांसकाः । तत्र पौरुषेयत्वं नाम प्रमाणान्तरेण् अर्थमुपलभ्य रचितत्वम् तत् वेदे नास्ति । अतः अयं वेदः अपौरुषेयः इति । अनेनैव कारणेन वेदस्य स्वतः प्रामाण्यमपि सिध्यति । पुरुषसम्बन्धसम्भाविताः भ्रम प्रमाद-विप्रलिप्सादयः अप्रमाण्यहेतवः ये ते वेदे न मिलिष्यन्ति । वेदस्य ब्रह्मस्वरुपत्वात् तस्मिन् वेदे प्रतिपादितः वेदनारायण् एव पुरुषः जीवः इति च वक्ष्यमाणत्वात् वेदस्यापौरुषेयत्वं सिद्धमिति एतेषां सिद्धान्तः ।

▲वेतस्यापौरुषेयत्वविचारः
▲इमे ग्रन्थात्मकाः वेदाः अग्न्यादिप्राणविधवेदाः इव अपौरुषेयाः भवन्तीति मीमांसकाः । तत्र पौरुषेयत्वं नाम प्रमाणान्तरेण् अर्थमुपलभ्य रचितत्वम् तत् वेदे नास्ति । अतः अयं वेदः अपौरुषेयः इति । अनेनैव कारणेन वेदस्य स्वतः प्रामाण्यमपि सिध्यति । पुरुषसम्बन्धसम्भाविताः भ्रम प्रमाद-विप्रलिप्सादयः अप्रमाण्यहेतवः ये ते वेदे न मिलिष्यन्ति । वेदस्य ब्रह्मस्वरुपत्वात् तस्मिन् वेदे प्रतिपादितः वेदनारायण् एव पुरुषः जीवः इति च वक्ष्यमाणत्वात् वेदस्यापौरुषेयत्वं सिद्धमिति एतेषां सिद्धान्तः ।
ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारुपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छवासरुपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्म्न्त्रः –

:'''तस्माद्यज्ञत्सर्बहुतः ॠचः सामानि जज्ञिरे ।'''

:'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥'''

: - (ऋ० सं० १०-३०३) इति

एवमुपनिषदि-

यो ब्राह्मणं विदधाति पूर्व्ं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि –मन्त्रायुर्वेद प्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्मः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।

अत्रेदमवधार्यम । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।

ईश्वरस्य निः श्वासरुपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुशवत जननमरणधर्मै न स्तः । ईश्वर अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।

==वेदस्य स्त्रष्टा ब्रह्म==
ईश्वर एव सम्पूर्णास्य जगतः सृष्टे कारणरुपो भवति । तेनैव निर्मितं भवति इदं जगत् । यथा –लोके कुलालः घटस्य निर्माता भवति, घटनिर्माणात् पूर्वं तद्विषयकचिन्तां मनसि कृत्वा तज्ज्ञानं बुद्धौ सम्यगवधार्य अनन्तरं घटं निर्मास्यति एव परमात्मा प्राणिनां धर्माधर्मपुरस्सर वेदोक्तरीत्या सृष्टिं करोति । यद्यपि वेदस्यापौरुषेयत्वमेव सिध्यति तथापि साक्षाद्वेदेनैव सृष्टयादयः न जायन्ते । अतः वेदस्य स्वतः अपौरुषेयत्वं ब्रह्मणा श्वासोच्छवासमुखेन प्रणीतत्वात् पौरुषेयत्वं च सिध्यतः । वेदस्य पौरुषयत्वमपि ब्रह्मणः नित्यत्वात् अपौषेयत्व च सिध्यतः वेदस्य पौरुषतत्वमपि ब्रह्मणः नित्यत्वात् अपौरुषेयत्वमेव भजते जन्मनाशरहिअत्वात् । सत्वप्राणिनां धर्माधर्माः बुध्यादयश्व् परमात्मनि वर्तन्ते । अयमीश्वरः तेषां धर्माधर्मानुसारेण चराचरप्राणिनां सृष्टिं करोति । तेषां भरणार्थं वेदानां निर्माण करोति । यथा लोके पिता पुत्रमुत्पादयति, अनन्तरं तस्य् हिताय ज्ञानं बोधयति, तेन ज्ञानेन अहितानां कर्मणां परिहारं कर्तुं तस्य् शिक्षां ददाति तथा परमेश्वरः जीवानामिष्टप्राप्तेः अनिष्टपरिहारार्थं च वेदानां सृष्टिं करोति । किं च जीवानां सुकृत-दुष्कृतकर्मणां फलमौश्वरः ददाति । पूर्वमीमांसायां तु कर्म स्वतः अपूर्वोत्पादनद्वारा स्वस्य फलं ददाति इत्यभ्युपगम्यते । ईश्वरः इत्येको वर्तते वा न वा इत्यत्र एतेषां मीमांसा नास्ति । वेदान्तदर्शने परब्रह्म इत्येकम् अनन्तमनादि अस्तीत्यभ्युपगम्यते, तद वेदस्य् निर्मातृ भवति इति च पूर्वोत्तरमीमांसयौएभेदः ।

किंच मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादि कर्मजातं चाल्यते इत्युच्यते । कर्मण मुख्यत्वं प्राबल्यत्वं च दातु मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुं एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाकयितु आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थ, सृष्टिंगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।

▲किंच मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादि कर्मजातं चाल्यते इत्युच्यते । कर्मण मुख्यत्वं प्राबल्यत्वं च दातु मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुं एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाकयितु आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थ, सृष्टिंगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।
== वेदस्य नित्यत्वविचारः ==
Line १३४ ⟶ १२८:
ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति ।
एकं सद्विप्र बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्यौः इति । एतेषु पृथिव्याः देवता –अग्निः, अन्तरिक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्यौः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापिः वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् –“तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति-“ नरराष्ट्रमिव” इति । यथा एकस्यैव राज्ञः कृते सर्व राष्ट्रं भवति तद्वत् एकस्य परमात्मनः कृते सर्वं भवति । सर्वं परमात्मस्वरुपमित्यर्थः ।

चोक्तमुपनिषदि –▼
▲चोक्तमुपनिषदि –

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छृतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते ॥
== मीमांसादर्शने ज्ञानसमीक्षा ==
मीमांसादर्शनेऽपि प्रमाजन्यस्य ज्ञानस्य प्रामाण्य्ं स्वीकृतमस्ति । मीमांसायाः प्रमाणलक्षणमस्ति -`कारणदोषबाधकज्ञानरहितं गृहीतग्राहि ज्ञानं प्रमाणम्’ इति । अर्थात् भ्रमरहितस्य संशयरहितस्य च अज्ञातस्य वस्तुनोऽनुभवः प्रमा कथ्यते । मीमांसादर्शने प्रमाणानां संख्या षट् वर्तते । यद्यपि प्रभाकरः पञ्चैव प्रमाणानि स्वीकरोति तथापि कुमारिलभट्टमते षट् प्रमाणानि स्वीकृतानि-प्रत्यक्षम अनुमानम्, उपमानम्, शब्दः, अर्यपत्तिः, अनुपलब्धिश्चेति । दर्शनेषु प्रत्यक्षानुमानयोः सन्दर्भे प्रायेण विवादो नास्ति । यद्यपि अनुमानप्रमाणविषये मीमांसकाः पञ्चावयववाक्यानि नैव स्वीकुर्वन्ति तथापि प्रतिज्ञाहेतूदाहरणनीति त्रीण्येव वाक्यानि परार्थानुमाने प्रतीपदयन्ति । मीमांसायाम् उपमानमपि भिन्नमस्ति । तथाहि तत्र उपमितिः आप्तवाक्यस्य स्मरणपूर्विका भवति, दृष्टव्स्तुनः सादृश्यात् स्मृतवस्तुनः सादृश्यमनुमाय पदार्थज्ञानमत्र विधीयते अतः मीमांसोक्ते उपमानप्रमाणे शब्दानुमानयोइपि संयोगोरस्ति ।

मीमांसादर्शने शब्दप्रमाणस्यापि महत्त्वमस्ति । वाक्येन शब्दप्रमाणेन वा प्रायेण वेदवाक्यानि गृहीतानि सन्ति, किन्तु लौकिकवाक्यान्यपि आप्तेन कथितानि चेत् तेषां प्रामाण्यं स्वीक्रियते । मीमांसादर्शने वाक्यं द्विधा प्रतिपादितम् सिद्धार्थकं विधायकं चेति । वेदेषु उपनिषद्वाक्यानि सिद्धार्थकानि सन्ति यानि च ब्रह्मणः स्वरुपादेः प्रतिपादकानि वर्तन्ते । अपराणि विधायकानि विधिवाक्यानि ब्राह्मणादिषूक्तानि सन्ति । तानि विधिवाक्यानि विनियोगवाक्यरुपेणापि प्राप्यन्ते । तानि सर्वाणि प्रमाणम् ।

मीमांसामतानुसारेण वेदप्रतिपादितं वस्तु कर्मरुपमस्ति न तु ज्ञानरुपम् यतो हि मीमांसादर्शने ज्ञानबोधकानां वाक्यानां तात्पर्यमपि विधिबोधकत्वमेवाभिमतम् । विहि तकर्माणि धर्मरुपाणि सन्ति, धर्मस्य प्रतिपादनां च मीमांसाया मूलभूतम् उद्देश्यं वर्तते । धर्मस्य विशेषता इयमस्ति यत् वेदविहितत्वात् तेषां प्रामाण्यं स्वीक्रियते । एवं चेत् वेदानां स्वतः प्रामाण्यम् अस्ति। वेदानां प्रामाण्यस्य प्रतिपादनमपि मीमांसायाः मुख्यं लक्ष्यमस्ति ।

मीमांसोक्तमतेन वेदाः नित्याः सन्ति । नित्यत्वादेव ते अपौरुषेयाः सन्ति अर्थात् वेदाः कस्यापि पुरुषस्य कृतिर्नास्ति । ऋषिभिः ऋचां दर्शनं कृतं, अतस्ते वेदानां रचयितारो न वर्तन्ते, ते केवलं मन्त्रदृष्टारः सन्ति । मीमांसामते वेदानां कर्त्ता ईश्चरो नास्ति । वेदे लोके च आप्तत्वात् शब्दप्रामाण्यमस्ति । शब्दो नित्यो वर्तते । शब्दोच्चारणं शब्दोत्पत्तिर्नास्ति । यतोहि उच्चारणात् पूर्व शब्दो विद्यमान आसीत् । यदि शब्दोऽनित्यः स्यात् तदा उच्चारणभेदेन तस्यानेकानि रुपाणि स्युः, किन्तु एकस्य शब्दस्य एकमेव कारणं भवति । शब्दस्य अर्थेन सह सम्बन्धोऽपि स्वाभाविक एवास्ति, कृत्रिमो नास्ति । अयमेवापौरुषेयो वेदो धर्मे प्रमाणम् अस्ति ।

मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदर्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकानि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –
Line १६४ ⟶ १५७:
== प्रमेयतत्त्वसमीक्षा ==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।
जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।

शक्ति सिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकं पदार्थो विद्यते यस्य सदभावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरुपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दा हिकत्वाभावात् स्वरुपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।

== आत्मविचारः ==
आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरुपिणं कर्मस्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति । आत्मनो ज्ञानम् आत्मसंवित्तिद्वारा जायते इति कुमारिलभट्टस्य मतमस्ति । एतदनुसारं आत्मा ज्ञानस्य कर्त्ता कर्म च युगपद भवति । प्रभाकर इदं न स्वीकरोति । प्रभाकरमतेन प्रत्येकं वस्तुज्ञाने तेनैव ज्ञानेन आत्मज्ञानमपि कर्तृरुपे प्रकाशितं भवति । आत्मैव अहंप्रत्ययस्य विषयो वर्तते ।
== कर्ममीमांसा ==
धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अतएव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलभतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् । अनेन निष्कामेन सकामेन वा कर्मणा ‘अपूर्व’ पदार्थस्योत्पत्तिर्भवति । वस्तुतो वेदविहितस्य कर्मणः सम्पादनमेव मानवजीवनस्योद्देश्यमस्ति । अस्मादुत्पन्नम् अपूर्वमेव स्वर्गस्य प्रापकमस्ति । अर्थात् निष्कामधर्माचरणेन आत्मज्ञानेन च प्राणिनां सञ्चितकर्माणि नश्यन्ति । येन जननमरणयोः क्रमोऽवरुध्यते, जीवश्च शाश्वतसुखे लीनो भवति ।
== मीमांसादर्शने ईश्वरविचारः ==
== मीमांसादर्शने मोक्षविचारः ==
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अतएव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थश्च अभिमताः । एभिस्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरुपेऽवतिष्ठति । निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणां अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिक कर्मणं सम्पादनेन सह आत्मज्ञानरुपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति ।
==दर्शनप्रतिपादकाः==▼
▲=दर्शनप्रतिपादकाः==
* [[जैमिनिः]]
* [[उपवर्षः]]
Line १९७ ⟶ १८६:
* [[माधवाचार्यः]]
* [[अप्पय्यदीक्षितः]]
==बाह्यानुबन्धः==
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/mimamsa/jaimsutu.htm Purva Mimamsa Sutras of Jaimini]
*[http://philtar.ucsm.ac.uk/encyclopedia/hindu/ascetic/mimamsa.html Overview of World Religions entry]
* [http://www.shastranethralaya.org/LecturePurva.html Complete Lectures on Purva Mimamsa Sutras of Jaimini at ShastraNethralaya]
[[वर्गः:मीमांसादर्शनम्]]