"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:

== मीमांसाशास्त्रपरिचयः ==
द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वैतीयेद्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेव माचारभूतविषयाणांमन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरुपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरण्स्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मकौ विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –श्रुतेः–[[वेदः|श्रुतेः]] क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीतेद्वितीयेक्रमविशेषाणांक्रमविशेषाणाम् एवएवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि अष्टप्रमाणानांषट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारअधिकारविषयिकी विषयिकी चर्चाचर्चां प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रियायुक्तानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मेष्वधिकारःकर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य् सम्पादनं कर्तव्यम् इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेश(शेष)वाक्यानां–अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गेः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गदिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादिनामूहविचारः–मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म्कर्म बाधितं भवति, एवमेव यत्र्यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे –तस्यैव– तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतेभूतयागेविकृतिभूतयागे तु यागस्य दक्षिणारुपेण् केवलं धेनुर्विहिता । अस्मिन यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरुपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्दश्यैःउद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य्प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।

==मीमांसादर्शनस्य आचार्यपरम्परा==
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा `द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः `सङ्कर्षणकाण्ड्’ इति नाम्ना प्रसिद्धा वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।

जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरुपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरुपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरुपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशोवर्तते । नवमाध्याये ऊहनिरुपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरुपितः ।
[[चित्रम्:Homa kundam.JPG|thumb|होमकुण्डम्]]
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
# [[आत्रेयः]]
# [[आश्मरथ्यः]]
# [[कार्ष्णाजिनिः]]
# [[बादरिः]]
# [[ऐतिकायनः]]
# [[कामुकायनः]]
# [[लाबुकायनः]]
# [[आलेखनः]]

मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।

मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य `तत्त्वशुद्धि’ रित्याख्या वृत्तिरपि मीमांसासूत्रेषु उपलभ्यते । कालान्तरे कुमारिलभट्टेन अस्य आलोचना विहिता ।

शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्या अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।

कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।

उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ता पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता `शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।

माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।

प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । `बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।

गुरुमतस्यैव आचार्यो महोदधि वर्तते स्म । `नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो द्शमशती मन्यते । नयविवेकमधिकृत्य कालान्तरे वरचराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्था विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति । प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।

== मीमांसाशास्त्रस्य प्रयोजनवत्त्वम् ==
“चोदनालक्षणोऽर्थो धर्मः (मी० सू०"<ref>मीमांसासूत्रम्, १-१-२)</ref> इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्” (मी० सू०<ref>मीमांसासूत्रम्, १२-४-४७ )</ref> इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् “स्वाध्यायोऽध्येतव्यः” इति ।

ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न कोऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्मात् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्ट अनुमानादिप्रमाणेन कल्त्यते । एवं स्वर्गरुपादृष्टफलं, केबलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफल, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीयआरम्भणीयं भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरुपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरुपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधत्ते ।

''स्वाध्यायोऽध्येतव्यः'' इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधा भावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं बिध्यर्थे भवति । विध्यर्थंविध्यर्थम् एव भावना इति गीयते । भावना द्विविधाअभिधाभावनाद्विविधा अभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थिभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः “स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति हेतोः अध्येतव्यः इति शब्दश्रवणेन तव्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।

अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थिभावना इति । यतः इयं पुरुषस्य अर्थरुपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरुपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । [[वेदः]] अनादिः नित्यः सिद्धश्च । अतः अयं [[वेदः]] साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।

यस्मिन क्रियाफलं तिष्ठति तत् उद्देश्यत्वेन भण्यते । एतदुद्देश्यएतदुद्देश्यं चतुर्धा भिद्यते – उत्पत्तिः प्राप्तिः विकारः , संस्कारश्चेति । तत्र उत्पत्तिः –कुलालस्य क्रियानुसारं घटस्योत्पत्तिर्जायते । अगमनक्रिययागमनक्रियया देशान्तरस्य प्राप्तिः । पाकक्रियया तण्डुले अन्नात्मको विकारः लाक्षारससेचनेन कर्पासबीजे गुणाधानद्वारा एकः संस्कारः उदेति । उद्देश्यत्वेन विहिताः इमे चत्वारः वेदे न सिध्यन्ति । यतः वेदस्य नित्यत्वाभ्युपगमात् अध्ययनप्रवृत्त्या तस्योप्तत्तिर्न भवति । स [[वेदः]] विभुः इति हेतोः तस्य प्राप्तिर्नास्ति । वेदे कृताध्ययनेन तस्मिन् न कोऽपि विकारः जायते । अध्ययनेन वेदस्य संस्कारः नोत्पद्यते । तस्मात् एतत् सिद्धं यत् वेदाध्ययनयोः उक्तेषु चतुर्षु कोऽपि आर्थिभावनायाः उद्वेश्यत्वेन भवितुं न शक्यते इति । उद्देश्यं विना भावनायाः व्यर्थत्वमापद्येत्, तदर्थमुद्देश्यत्वेन अर्थावबोधः अवश्य्ं स्वीकर्तब्यो भवति । यद्येवं नाङ्गीक्रयते अध्ययनविधेः व्यर्थता स्यात् । अतः अध्ययनविधिसामर्थ्येन तस्य फलंफलम् अर्थज्ञान तु केव्लाध्ययनेन न सिध्यति । अर्थज्ञानसम्पादनाय शात्रस्य अपेक्षा अस्तिंअस्तिम्, एकस्मिन्नेव कर्मणि कर्तु मकर्तु मन्यथा वा कर्तु पुरुषस्य सामर्थ्यवत्त्वात्, एतत्कर्म एवमेव सम्पादनीयमिति कर्मानुष्ठाने एकस्य नियमस्य अपेक्षा अस्ति । तादृशीमपेक्षात्मिकामाकांक्षां एतन्मीमांसाशास्त्रं पूरयति । अर्थनिर्धारणे शास्त्रस्यास्य महान् उपयोगः अस्ति । तस्मात् अवश्यमेव एतन्मीमांसाशास्त्रमारम्भणीयमिति ।

यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थेःतस्यार्थः स्वर्गफलं न भवति । यत्तःयतः स्वर्गफलमदृष्टात्मकं भवति । सम्मवतिसभ्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफल कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरुप मदृष्टफलमस्यअवान्तरापूर्वरुपमदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषं फल लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्य दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।

== कुमारिलमतानुसारमधिकरणविवेचनम् ==
पूर्वमीमांसायां “अथातो धर्मजिज्ञासा” (जै० सू०<ref>जैमिनिसूत्रम्, १-१-१)</ref> इति सूत्रेण प्रथमाधिकाणमारभ्यते । अवान्तरप्रकरणस्य नाम अधिकरणमिति । अधिकरण पञ्चावयवात्मकं भवति । यथा –

:'''विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''

:'''सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥'''

इति । विशयः नाम संशयः । यमुद्दिश्य विचारः क्रियते सः विषयः विषये यज्ज्ञानं प्रकारद्वयेन न स्पष्टीक्रियते सः भवति संशयः । प्रकारद्वये एकः भावरुप्ः, अन्यः अभावरुपः । कोटिद्वयेषु वादी यस्मिन् पक्षे स्वमतमुपस्थापयति सः पूर्वपक्षः । प्रतिवादिनः पूवपक्षखण्डनात्मकः सिद्धान्तः नाम उत्तरपक्षः । सङ्गतिः त्रिविधात्मिका भवति –अधिकरणसङगातिः, पादसङ्गतिः, अध्यायसङ्गतिश्चेति । सङ्गतेः स्वरुपमेवं भवति-अयं विचारोऽस्मिन्नधिकरण, अस्मिन् पादे, अस्मिन्नध्याये कर्तव्यत्वेन यद्विहितं तत्समुचितम् इति एवप्रकारात्मकः विचार एव सङ्गतिरित्युच्यते ।

भाट्टास्तु –सङ्गतिमधिकरणाङ्गत्वेन मन्यन्ते । ते तु सङ्गतिस्थाने उत्तरमिति अङ्गत्वेन स्वीकरिष्यन्ति । निर्णयोत्तरयोः अयं भेदः यत् उत्तर वादिमतस्य खण्डनमात्रं भवति, न तु सिद्धान्तः । यथा जात्युत्तर तद्वत । निर्णयः एव सिद्धान्तो भवतीति । एतेषां मतानुसारमयं श्लोकः –
:'''विशयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।'''

:'''निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥''' इति ।

इति । एतेषां न्यायानुसार –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादि शृतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।

इति । एतेषां न्यायानुसार –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादि शृतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।

== गुरुमतपदौचित्यविचारः ==
एवमेव “गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयन्नास्त । समये च तस्मिन् एकस्यां फविककायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्तम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । तत्र तु इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्तउक्तं भवति इति सति पौनरुक्तम्पौनरुक्तं कथमिति प्रभाकरेण पृष्टे विषयेविषयेऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्वं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एवं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानीमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः
ऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्व्ं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एताछृत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एव्ं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्तमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिश्यानपृच्छन्, -केन एव्ं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानौमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यत गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः

== प्रभाकरमतानुसारमधिकरणविवेचनम् ==
''अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत'' इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्य पदार्थः कः ? आचार्यत्वप्राप्यते यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेणइत्यात्मनेपदप्रयोगेन आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमितो भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” इति शृत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।

== श्रुत्यादीनां प्रामाण्यविचारः ==
श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाखानां समवाये पारदौर्बल्य मर्थविप्रकर्षात्” (जै० सू०<ref>जैमिनीसूत्रम्- ३-३-१४)</ref> इति मन्त्रदेवताहविरादि द्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन् श्रुत्यादिषटप्रमाणानिश्रुत्यादिषट्प्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्याअनवस्था स्यात् । अतः पारदौर्बल्य मर्थविप्रकर्षात्पारदौर्बल्यमर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत् क्रमानुसार सवेषांसर्वेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्टति । अस्याः अपेक्षया अन्ये लिङ्गदयःलिङ्गादयः सर्वे दुर्दलाः भविष्यन्ति ।

श्रुतिः द्विःप्रकारात्मिका अस्ति –एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि मिलति । “श्योनं ते सदनं कृणोति” (<ref>तै० ब्रा० ३-६) इति ब्राह्मण वाक्यानुसार मन्त्रार्थ दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।

अर्थप्रकाशन सामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसार भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम श्योनं त इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परम्परान्वितार्थ पदानां यः समूहः तत् बाक्यमित्युच्यते । देवस्य त्वा इति वाक्ये अग्नये जुष्टं इति भागस्यास्य निर्वापरुपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितमिंगेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमान क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।

Line ९३ ⟶ ६२:
==प्रामाण्यवादविचारः==
प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः वियेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादि शब्दैः व्यपदिश्यते । भावा भावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारण्त्वेन यः वादः अस्ति तस्य् “प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारर्णावषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामरण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः
:'''प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।'''

:'''नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥'''

:'''प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।'''

:'''प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥'''

इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्य स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्त भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यं एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामण्यमपि उत्पन्नं भवति । प्रामाण्योत्पतौ गुणमथवा दोषाभावं विहाय अन्यः हेनुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यबादविचारः ।

सततः प्रामाण्ये मीमांसामतानुसारमनुमाने –विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा –“वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतपालभेत्” इति विधेः प्रशंसां करोति । एवमेव “सोऽरोदीत्तदुद्रस्य रुद्रत्वम” इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्तदुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा –श्योनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्तेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामानिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत्, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।
मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थ कयमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारुपमेतद् मीमांसादर्शनं भवति ।

==वेतस्यापौरुषेयत्वविचारः==
Line १३१ ⟶ १००:

चोक्तमुपनिषदि –

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरुपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छृतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते
== मीमांसादर्शने ज्ञानसमीक्षा ==
Line १५६ ⟶ १२५:

== प्रमेयतत्त्वसमीक्षा ==
मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्था एवमुक्ताः –द्रव्यं–[[द्रव्यं]], [[गुणः]], [[कर्म]], [[सामान्यम्]], परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रुपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।

जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रुपे सत्यमस्ति, यस्मिन् रुपे तत् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः शरीन्द्रियविषयरुपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरुपेण संसारस्य अवस्थितिर्विद्यते । जगत् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगत् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु य परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।

Line १७२ ⟶ १४२:
== मीमांसादर्शने मोक्षविचारः ==
मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अतएव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थश्च अभिमताः । एभिस्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरुपेऽवतिष्ठति । निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणां अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिक कर्मणं सम्पादनेन सह आत्मज्ञानरुपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति ।

==मीमांसादर्शनस्य आचार्यपरम्परा==
मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । मीमांसासूत्राणां रचना षोडशेषु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा `द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः `सङ्कर्षणकाण्ड्’ इति नाम्ना प्रसिद्धा वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।

जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरुपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरुपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरुपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशोवर्तते । नवमाध्याये ऊहनिरुपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरुपितः ।
[[चित्रम्:Homa kundam.JPG|thumb|होमकुण्डम्]]
यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –
# [[आत्रेयः]]
# [[आश्मरथ्यः]]
# [[कार्ष्णाजिनिः]]
# [[बादरिः]]
# [[ऐतिकायनः]]
# [[कामुकायनः]]
# [[लाबुकायनः]]
# [[आलेखनः]]

मीमांसारूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दयां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।

मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य `तत्त्वशुद्धि’ रित्याख्या वृत्तिरपि मीमांसासूत्रेषु उपलभ्यते । कालान्तरे कुमारिलभट्टेन अस्य आलोचना विहिता ।

शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्या अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।

कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्य नाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेका रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।

उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ता पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता `शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।

माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । ‘भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।

प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमातापेक्षया भिन्नमतमयं प्रतिपादितवान् । अतएव प्रभाकरपतं गुरुमतनाम्ना पृथक् रुपेण प्रसिद्धमस्ति । गुरुपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । `बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।

गुरुमतस्यैव आचार्यो महोदधि वर्तते स्म । `नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो द्शमशती मन्यते । नयविवेकमधिकृत्य कालान्तरे वरचराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्था विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति । प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।

==दर्शनप्रतिपादकाः==
Line १८७ ⟶ १८९:
* [[अप्पय्यदीक्षितः]]

==अधारः==

<references/>
==बाह्यानुबन्धः==
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/6_sastra/3_phil/mimamsa/jaimsutu.htm Purva Mimamsa Sutras of Jaimini]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्