"गान्धीनगरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६५:
 
 
[[गुजरातराज्यम्|गुजरातराज्ये]] किञ्चन मण्डलम् अस्ति [[गान्धिनगरमण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति '''गान्धिनगरम्''' ({{lang-gu|ગાંધીનગર}}, {{lang-en|Gandhinagar}}) यत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] राजधानी । प्राक् इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डले]] एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् [[अहमदाबादमण्डलम्|अहमदाबादमण्डलात्]] पृथक् कृतम्, अपि च [[गुजरातराज्यम्|गुजरातराज्यस्य]] प्रशासनकेन्द्रत्वेन संस्थापितम् ।
 
अस्य मण्डलस्य विस्तीर्णं ६४९ चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये [[साबरकाठामण्डलम्]], आग्नेये [[खेडामण्डलम्]], नैऋत्ये [[अहमदाबादमण्डलम्]], वायव्ये [[मेहसाणामण्डलम्]] अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं [[गुजरातराज्यम्|गुजरातराज्यस्य]], अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।
"https://sa.wikipedia.org/wiki/गान्धीनगरम्" इत्यस्माद् प्रतिप्राप्तम्