"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''सांख्यदर्शनं''' प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य जन्मदाा भागवान् [[कपिलः]] । [[वेदः|वेदेषु]] यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि [[बृहदारण्यकोपनिषत्|बृहदारण्यक]]-[[कठोपनिषत्|कठोपनिषद्]]-[[श्वेताश्वतरोपनिषत्|श्वेताश्वतर]]-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । [[कपिलः]] सांख्यस्य प्रणेता मन्यते । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै एव चिन्तितो भूत्वा कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् ।<br />शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मिका, केवलविकृतिः, अनुभयात्मिका चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः ।
 
==शब्दनिष्पत्तिः==
सांख्यशब्दस्य निष्पत्तिः सम् उपसर्गपूर्वकं ख्याधातोः सञ्जाता । अस्यार्थोऽस्तिसम्यग्विचाराणामुपस्थापकं शास्त्रम् । अस्मिन् एव शास्त्रे सर्वप्रथमं तत्त्वानां संख्या परिभाषिताऽस्ति । अत एवास्य नाम संख्यमित्यस्ति इत्यपि केचन प्रतिपादयन्ति तथापि एषा व्युत्पत्तिर्ग्राह्या नैव प्रतीयते । यतो हि एतद्विपरीतं प्रकृतिपुरुषयोर्भेदरूपस्य विवेकस्य ज्ञापकं शास्त्रं सांख्यशास्त्रमस्ति ।<br />
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्