"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६६:
(५) '''[[विज्ञानभिक्षुः]]'''- विज्ञानभिक्षुरपि ऐतिहासिकः सांख्यविद्वान् अस्ति । अस्य स्थितिकालः षोडशशताब्दी इति मन्यते । सांख्यप्रवचनभाष्यमपि अस्यैव कृतिरस्ति । योगवार्तिके ब्रह्मसूत्रे च विज्ञानामृतभाष्यमपि अस्य कृतिरूपेण उपलभ्यते । अस्य विदुषो विचारैः वेदान्तसाम्यताः सन्ति, अतः उभयविधशास्त्राणां समन्वयपरकोऽयं मन्यते ।<br />
(६) '''[[ईश्वरकृष्णः]]'''- ईश्वरकृष्णः [[सांख्यकारिका]]याः रचयिता भवति । ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता । सांख्यकारिका वर्तमाने सर्वाधिकं लोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना '''कनकसप्तति सांख्यसप्तति सुवर्णसप्तति''' चापि उच्यते ।<br />
सांख्यकारिकायां द्वासप्ततिः कारिकाः सन्ति । आसु कारिकासु आचार्यगौडपादस्य गौडपादभाष्यमुपलभ्यते । सांख्यकारिकायाः अनेके टीकाग्रन्थाः अपि विद्यन्ते । वाचस्पतिमिश्रस्य सांख्यतत्त्वकौमुदी, माठराचार्यस्य माठरवृत्तिः, [[शङ्कराचार्यः|शङ्कराचार्यस्य]] जयमङ्गलाटिकाजयमङ्गलाटीका टीकाग्रन्थेषु विशिष्टा वर्तन्ते । नारायणतीर्थविरचिता चन्द्रिकाटीका, हरिहरारण्यककृता सांख्ययोगसरलाख्या बँगलाटीका, युक्तिदीपिका टीका चापि सम्प्रति उपलभ्यन्ते ।
 
==सम्बद्धपुटानि==
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्