"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Ramanujacharya Idol in a temple.jpg|thumb|रामानुजाचार्यः]]
'''विशिष्टाद्वैतवेदान्तः''' त्रिषु [[वेदान्तः|वेदान्तेषु]] अन्यतमः । [[रामानुजाचार्यः]] अस्य प्रवर्तकः विद्यते । अस्य सिद्धान्तस्य आधाराभूतानि प्रस्तानत्रायानि । अतीवप्राचीनानाम् उपनिषद्विचारधारानाम् अनुगुण्येन अयं सिद्धान्तः ’चिदचिद्विशिष्टम् एकं ब्रह्मतत्वम्’ अस्ति इति प्रतिपादितः । अस्मिन् सिद्धान्ते जीवात्मानां प्रकृतेः च सतत्वं स्वीकृतम् अस्ति । तथापि, ब्रह्मादीनमेव ब्रह्मतत्वं विना नभवन्ति । ब्रह्मवस्तूनः अपृथक्सिद्धानि विशेषणानि भवन्ति इति प्रतिपादितम् अस्मिन् । चेतनाचेतनविशिष्ठः ब्रह्मा एकः एव इति स्फुटसिद्धान्तः । उपनिषद्प्रतिपाद्यः ब्रह्मवस्तु श्रीमन्नारायणः एव इति अस्य सिद्धान्तस्य अर्थः । अस्मिन् सिद्धान्ते प्रतिपादिता या ईश्वरभावना सा पाञ्चरात्रागमेषु प्रतिपादितस्य भागवतसम्प्रदायस्य अनुगुणम् अस्ती । अस्मिन् सिद्धान्ते पाञ्चरात्रागमौपदेशस्य उपनिषदामुपदेशस्य च समन्वयः दृश्यते । अतीवप्राचीनस्य अस्य सिद्धान्तस्य पुनस्समर्थनं भगवान् रामानुजाचार्यः कृतवान् । जीवः ब्रह्मापेक्षया प्रत्येकः सत्यः च इति प्रतिपादितम् अस्मिन् दर्शने । अस्य रामानुजाचार्यस्य अपेक्षया दक्षिणभारते जातः ’आळ्वासन्तः’ तमिळुभाषायां विद्यमानलोकोक्तिषु श्रीमन्नारायणस्य परत्वम्, जीवब्रह्मभेदम्, भगवदवताराणां सत्यत्वम्, मोक्षप्राप्त्यादि उपायञ्च उपदिश्टवान् आसीत् । 'द्राविडप्रबन्धाः' इति नाम्ना प्रसिद्धाः अस्य उपदेशाः ’तमिळुवेदः’ इत्येव अङ्गीकृताः सन्ति । अस्य वेदान्तस्य समर्थने ’तमिळुवेदस्य’ (अस्य उपदेशाः) मुख्यं पात्रम् अस्ति । अस्य सिद्धान्तस्य स्थापने प्रस्थानत्रयस्य प्रामुख्यता यथा वर्तते तथैव द्राविडवेदान्तस्यापि अस्ति । अतः ’उभयवेदान्तः’ इति अस्य सिद्धान्तस्य नामान्तरम् अपि श्रूयते ।
[[रामानुजाचार्यः]] अस्य प्रवर्तकः विद्यते ।
 
==इतिहासः==
विशिष्टाद्वैतस्य सिद्धान्तस्य समर्थने त्रयः अचार्याः मुख्याः । ते क्रमशः नाथमुनिः, यामुनमुनिः, रामानुजः च भवन्ति । नाथमुनेः कालः क्रि.श.९ शतमानस्य उत्तरार्धम् इति । अनेन रचिताः ग्रन्थाः नैवोपलभ्यन्ते । यमनमुनिः क्रि.श. १०५० तमे संवत्सरे आसीत् । अयं नाथमुनेः पौत्रः भवति । अस्य सिद्धान्तस्य निर्दिष्टस्वरूपम् एषः एव दत्तवान् । आगमप्रामाण्यम्, सिद्धित्रयम्, गीतार्थसङ्ग्रहः, स्तोत्ररत्नादयः ग्रन्थाः अनेनैव रचिताः । अस्य समनन्तरं रामानुजाचार्यः अस्य मतस्य प्रचारं सुस्थापनञ्च कृतवान् । अस्य कालः क्रि.श. १०१७-११३७ (शतकमिति) भवति। अनेन रचिताः ग्रन्थाः श्रीभाष्यम्, वेदान्तसारः, वेदान्तदीपम्, वेदार्थसङ्ग्रहः, भगवद्गीताभाष्यादयः भवन्ति । एतैः ग्रन्थैः स्वोपदेशेन च एनं सिद्धानतं समर्थितवान् अस्ति [[रामानुजाचार्यः]] । अनेन यशोऽपि प्राप्तः । अतः अस्यैव सिद्धान्तस्य नाम ’रामानुजदर्शनम्’ इत्यपि ख्यातिः अस्ति । रामानुजाचार्यस्य समनन्तरं नैके दर्शनिकाः ग्रन्थान् रचितवन्तः । केचन ग्रन्थाः न प्राप्ताः। तथापि केचन विशिष्ठाः ग्रन्थाः उपलभ्यन्ते । ग्रन्थरचयितारः प्रसिद्धाः दार्शनिकाः च एते भवन्ति,
 
{| class="wikitable"
|-
! नाम !! कालः (क्रि.श)
|-
| श्रीवत्साङ्क मिश्रः || १२ शतकम्
|-
| श्रीपराशरभट्टः || क्रि.श १२००
|-
| वात्स्यवरदाचार्यः || १३ शतकम्
|-
| सुदर्शनभट्टारकः || १३ शतकम्
|-
| अत्रेयः रामानुजः || १३ शतकम्
|-
| वेदान्तदेशिकः/श्रीमद्वेङ्कटनाथः || क्रि.श १२६८-१३६९
|}
 
श्रीसुदर्शनभट्टारकः श्रीभाष्यस्य "श्रृतप्रकाशिका" नामकं व्याख्यानं रचितवान् । रामानुजस्य अनन्तरकालीनेषु सुप्रसिद्धेषु सिद्धान्तप्रतिपादकेषु अन्यतमः वेदान्तदेशिकः इत्येव सुपरिचितः श्रीमद्वेङ्कटनाथः । अस्य समकालीनः "मेघनाचारिसूरि" नामकः दार्शनिकः ’नयद्युमणि’ नामकं व्याख्यानं रचितवान् । अस्मिन् अस्य सिद्धान्तस्य प्रमाणानि, प्रमेयाः च निरूपिताः सन्ति । क्रि.श.१६तमे शतके रङ्गरामानुजः उपनिषदानां व्याख्यानं कृतवान् । क्रि.श १७ तमे शतके ’श्रीनिवासनामकः’ ’यतीन्द्रमतदीपिका’ नामकं पुस्तकं रचितवान् । अद्यत्वे अपि नैके ग्रन्थाः रचिताः रचयिष्यमाणाः च सन्ति ।
 
==तत्त्वस्वरूपम्==
 
 
 
 
 
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्