"विशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
==तत्त्वस्वरूपम्==
अस्मिन् सिद्धान्ते तत्त्वस्वरूपविषये एवं निरूपितम् अस्ति, '''अशेषचिदचित्प्रकारं ब्रह्म एकमेव तत्त्वम्, तत्र प्रकारप्रकारिणोः प्रकाराणां च मिथोऽत्यन्तभेदेऽपि वैशिष्ट्यादिविवक्षया एकव्यपदेशः तदितर निषेधश्च<ref>न्यायसिद्धाञ्जनम्, वेङ्कटनाथः
</ref> ''' इति । चेतनाचेतनयोः मिलितः ब्रह्मवस्तु एकमेव । तत्त्वविशेष्यविशेषणयोः भेदः सत्याम्, विशेषणेषु परस्परभेदः अस्तिचेदपि एतैः विशेषैः मिलितम् वस्तु एकमेव इत्यतः तत्त्वम् एकमेवेति । अनेन सिद्धान्तेनैव एषः वेदान्तः विशिष्टाद्वैतवेदान्तेन प्रथितः इति । अस्य दर्शनस्य असाधारणानि वैशिष्ट्यानि एतानि भवन्ति,
#श्रुतिवाक्यानां मुख्यार्थमेव कथनम् ।
#चिदचिद्विशिष्टः ब्रह्मा एकः एव । चेतनः, अचेतनः, ब्रह्मवस्तुनः च स्वरूपस्वभावाः विलक्षणाः भवन्ति ।
#शरीरस्य दोषः आत्मसम्बन्धितः, अतः ब्रह्मवस्तु निर्विकारः ।
#परमात्मा कर्माध्यक्षः, अतः अस्य शरीरादुत्पन्नानां सुखदुःखानां सम्बन्धः न भवति ।
 
==जीवात्मा==
जीवात्मानः चैतन्यस्वरूपाः। देह-इन्द्रिय-मन-प्राण-बुद्ध्यादिभिः भिन्नः । जीवात्मानः नित्याः,सत्यभूताः च भवन्ति । या कापि वा अवस्था भवतु, ईश्वरभिन्नाः एनं जीवात्मानं विहाय न भवन्ति । एते अनन्ताः भवन्ति । प्रत्येकस्मिन्नपि शरीरे भिन्नाः भवन्ति । यथा ज्ञानस्वरूपाः तथैव ज्ञानाश्रयाः अपि भवन्ति । कर्तृत्त्व, भोक्तृत्व, ज्ञातृत्त्वसहिताः एते अणुस्वरूपाः भवन्ति । '''ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः''' इति । (परमात्मनः शेषभूताः) आत्मानः विभागः, बद्धः, मुक्तः, नित्यः च इति ।
*बद्धः- अनादेः कर्मकारणवशात् प्रकृतिसम्बन्धसहिताः एवं संसारे ये च भवन्ति ते बद्धाः भवन्ति ।
*मुक्तः- साधनानुष्ठानैः ईश्वरं ये प्राप्तवन्तः, एवं संसारात् विरक्ताः ते मुक्ताः भवन्ति ।
*नित्यः- केवलं प्रकृत्या सह सम्बद्धाः नित्याः भवन्ति ।
 
==जगत्==
अस्मिन् सिद्धान्ते जगतः सत्यत्वं प्रतिपादयन्ति । भौतजगत् प्रकृतेः परिणामः भवति । अस्यैव अव्यक्तम्, अक्षरम्, मूलप्रकृतिः, अविद्या, मायादीनि पर्यायवाचकानि भवन्ति । सततपरिणामस्तु प्रकृतेः स्वभावः भवति । अस्य स्थितिः प्रवृत्तिश्च ईश्वराधीनं भवति । प्रकृत्याः सत्वरजस्तमादयः त्रयोगुणाः भवन्ति । एतान् गुणान् प्रकृत्या विभजयितुं न शक्यते किन्तु प्रकृत्यपेक्षया भिन्नाः । ईश्वरस्य सङ्कल्पानुसारेणैव प्रकृतौ परिवर्तानादिकं शक्यम् ।
 
==प्रमाणानि==
अस्मिन् दर्शने केवलं त्रीणि प्रमाणानि अङ्गीकृतानि सन्ति । तानि, प्रत्यक्षम्, अनुमानम्, शब्दञ्चेति । अन्यै दार्शनिकैः उक्तानि प्रमाणानि त्रिषु एव अन्तर्भवन्ति । इन्द्रियार्थसन्निकर्षात् उत्पन्नं ज्ञानं प्रत्यक्षं भवति । इदम् द्विविधं, नित्यमनित्यञ्चेति । ईश्वरस्य नित्यमुक्तस्य च प्रत्यक्षं नित्यम् । बद्धावस्थायां विद्यमानानां प्रत्यक्षम् अनित्यम् ।
अनित्यप्रत्यक्षं द्विविधम् । योगिप्रत्यक्षम्, अयोगिप्रत्यक्षञ्चेति । '''योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजं तत् युक्तावस्थायां मनोमात्रजन्यम्''' <ref>न्यायपरिषुद्धिः, वेङ्कटनाथः </ref> । केवलं योगिनाम् एव मानसप्रत्यक्षम् इति । अयोगिनां जनसामान्यानां प्रत्यक्षं तु पञ्चेन्द्रियाणाम् अनुसारं पञ्चविधप्रत्यक्षं भवति । अस्मिन् सिद्धान्ते प्रत्यक्षम् एवमपि विभागं कृतं अस्ति, सविकल्पकम्, निर्विकल्पकम् इति ।
 
 
Line ३२ ⟶ ५१:
 
==प्रमुखाः सिद्धान्ताः==
 
==आधाराः==
 
 
<references/>
 
[[वर्गः:विशिष्टाद्वैतवेदान्तः]]
"https://sa.wikipedia.org/wiki/विशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्