"सूफीमतम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
अस्मिन् सिद्धान्ते निवृत्तिमार्गः विशेषप्राधान्यम् आवहति । प्रापञ्चिकबन्धनानि सुखानि च परित्यज्य निर्धनत्वम् आश्रित्य एकान्ते कठोरतपसः आचरणेन भगवतः साक्षात्कारप्राप्तिः एव सूफीजनानां परमं लक्ष्यं भवति । परमेश्वरस्य अवकृपायाः भीतिः एव सर्वदा सूफिजनानां मनः बाधते ।
==मूलसिद्धान्ताः==
===परमात्मनः स्वरूपम्===
परमात्मनः स्वरूपविषये मुसल्मानतत्त्वज्ञाने त्रयः प्रमुखाः अभिप्रायाः वर्तन्ते ।
:१. इजादिया – नाम द्वैतवादः । एतन्मतानुसारं परमेश्वरः शून्यात् सृष्टिम् अकरोत् । सृष्टिः परमेश्वरश्च भिन्नौ ।
:२. शहुदिया – अस्य मतानुसारं परमेश्वरस्य स्वरूप-सामर्थ्ययोः पुरतः इयं सृष्टिः नगण्या एव । सृष्टिः दर्पणः इव यत्र परमेश्वरस्य गुणानां प्रतिबिम्बमात्रं दृश्यते ।
:३. वजुदिया – नाम अद्वैतवादः । परमेश्वरमात्रं सत्यस्वरूपः । ’हया-उस्त’ तन्नाम सर्वं सः एव इति ।
सूफिमते ’शहुदिया’ ’वजुदिया’ इति द्वौ प्रमुखौ भेदौ विद्येते ।
===परमेश्वरस्य आविष्कारः===
सूफिमते परमेश्वरस्य आविष्काररीतिः ’तनजुल्लात’ इति निर्दिश्यते । अस्य शब्दस्य ’अवतरणम्’ इति अर्थः । परमनिर्गुणावस्थायां विद्यमाना परमात्मशक्तिः अस्माकम् इच्छायाः आविष्कारदिशि प्रवर्तते । तस्य परिणामस्तु भवति विविधतासु ऐक्यमित्यत्र एव । परमेश्वरस्य शुद्धं स्वरूपम् ’अल्लं वजदुल मुत्लक’ नाम ’एकमेव अस्तित्वम्’ इति निर्दिश्यते । अस्य स्वरूपं निर्गुणत्वं तन्नाम अजातत्वम् ।
 
[[वर्गः:विविधमतानि]]
"https://sa.wikipedia.org/wiki/सूफीमतम्" इत्यस्माद् प्रतिप्राप्तम्