"शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

शक्तिविशिष्टाद्वैतवेदान्तः वेदान्तेषु अन्य... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
शक्तिविशिष्टाद्वैतवेदान्तः वेदान्तेषु अन्यतमः । शैवदर्शनानां विकासे एषः वेदान्तः महत्स्थानं प्राप्तः अस्ति । अस्य वेदान्तस्य वेदसम्मताः कामिकादिवातुलान्ताः २८ शिवागमाः मूलभूताः सन्ति । शैवसंस्कृतिः प्रागैतिहासिकसंस्कृतिः इति केशाञ्चन विद्वांसानाम् आशयः । ५००० वर्षेभ्यः पूर्वम् आसीत् इति इतिहासविदानाम् आशयः । शैवदर्शनं शिवागमे उक्तानि ३६ तत्त्वानि साहितम् अस्ति । एषा कल्पना श्री नन्दिकेश्वरशिवाचार्येण रचितायां माहेश्वरसूत्रकारिकायां निरूपिता अस्ति । काश्मिरस्य शैवदार्शनिकाः सोमानन्द-अभिनवगुप्तादयाः
आगमाः वेदसमानाः इति अभिप्रयन्ति । आगमाः ईश्वरोक्ताः, नित्याश्च इति । आगमानाम् उगमपरम्परां सोमानन्दः (क्रि.श. ९००) स्वरचिते ’शिवदृष्टि’ नामके ग्रन्थे निरूपितवान् अस्ति ।
 
==इतिहासः==
शैवागमाश्रीतस्य लकुलीशपाशुपतदर्शनप्रवर्तकस्य लकुलीशस्य सम्बद्धाः शिलाभिलेखाः मथुरायां गुजरातराज्यस्य सोमनाथदेवालयेच उपलब्धाः सन्ति । श्रीसिद्धान्तम् अनुसृत्य शैवाद्वैत, शैवद्वैत, शैवद्वैताद्वैतवेदान्ताः प्रकाशिताः सञ्जाताः । एतेषां वेदान्तानां क्रमशः त्र्यम्बकः, अमर्दकः, श्रीनाथः च प्रवर्तकाः भवन्ति । शैवाद्वैतं द्विविधम् एकं पाशुपतदर्शनम्, अपरं सिद्धान्तशैवदर्शनम् । प्रथमदर्शनं बादरायणस्य प्रत्यधिकरणे निराकृतम् अस्ति । कामिकादितवातुलान्ताः २८ शिवागमाः ’सिद्धान्तः’ इति नाम ।
"https://sa.wikipedia.org/wiki/शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्