"गौतमः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
'''गौतमः''' -न्यायदर्शनस्यन्यायसूत्राणां आधारःरचयिता न्यायसूत्राणिभवति एव। गौतमस्य अपरं नाम 'अक्षपादः' इतिन्यायसूत्राणिन्यायदर्शनस्य गौतमःआधारः रचितवान्न्यायसूत्राणि एवगौतमस्यअतः न्यायदर्शनस्य अपरं नाम 'अक्षपादः'’अक्षपाददर्शनम्’ इति । वेदाः, उपनिषदः, महाभारतम् इत्यादिषु ग्रन्थेषु यद्यपि तर्कशास्त्रस्य मूलभूताः अंशाः दृश्यन्ते, तथापि तस्यअस्य शास्त्रस्य व्यवस्थितं स्वरूपं गौतमेन एव कल्पितम् । गौतमः १५० तमे क्रिस्ताब्दे आसीत् इति भाव्यते । प्रभासक्षेत्रे सोमशर्मा नाम ब्राह्मणः आसीत् । तस्य चतुर्षु पुत्रेषु ज्येष्ठः एव गौतमः' इति ब्रह्माण्डपुराणात् ज्ञायते । गौतमेन रचितानां न्यायसूत्राणाम् आधारेण एव न्यायशस्त्रं शाखोपशाखारूपेण प्रवृद्धम् । सर्वशास्त्रकाराः अपि स्वसिद्धान्तस्य प्रतिपादनार्थं न्यायशास्त्रचिन्तनम् अवलम्बन्ते एव । गौतमहर्षेः उत्पत्तेः प्राक् न्यायदर्शनप्रतिपाद्याः वेदप्रमाविषयाः यदि न निश्चिताः तथा श्रेयोमार्गे मानवानां प्रवृत्तिः न संभवति, इति शङ्क्य न्यायादिविद्यानां सर्वदा विद्यमानत्वात् , तदुक्तं न्यायमञ्जर्यां ’ चरनैय्यायिकेन जयन्तभट्टेन, ’आदि सर्गात् प्रभृति वेदवत् इमाः विद्याः प्रवृत्ताः’ इति ।

==गौतमस्य जन्मभूमिः==
न्यादर्शनप्रणेता अक्षपादः प्रजापतेः अङ्गीरसस्य प्रपौत्रः, दीर्घतमसः पुत्रः महान् तपस्वी च आसीत् । अस्यैव पत्नी अहल्या या च स्वभर्ता अभिषप्ता, पाषणं भगवतः रामचन्द्रस्य पादनिर्गतरजस्पर्शेन विधूतपापा सञ्जाता । महर्षेः गौतमतनयः सतानन्दात्मकः मिथिलेश्वरस्य जनकराजस्य पुरोहितः आसीत् । अतः गौतमः अहल्यापतिः ’मैथिलः’ इति वक्तुम् अस्ति अवसरः इति केचन वदन्ति । गौतमोऽयं अष्टादशपुराणकर्तुः भगवतः व्यासस्य गुरुः । कदाचित् व्यासगौतमयोः विवादः जातः, विवादे व्यासः गौतमस्य मतं पराकृत्य , ’एतेन शिष्टापरिग्रहः व्याख्यातः’ इति ब्रह्मसूत्रे तृतीयाध्याये द्वितीयपादे महद्दीर्घाधिकरणे सूत्रं प्रणीतवान् । तदनु सञ्जातकोपः गौतमः स्वशिष्यं व्यासं त्वं गुरुमतं खण्डयसि, अतः शिष्याधमो जातः, ’इतः परं त्वाम् अनेन चक्षुषा नैव द्रक्षामि’ इति अवदत् । तत् श्रुत्वा व्यासस्य मनसि खेदः जातः। तदन्तरं स्वगुरोः गौतमस्य पादयोः पतित्वा ’मयि एतावत् कोपः --भवतः मास्तु’ इति साञ्जलीं प्रार्थितवान् । ततः विगतक्रोधः गौतमः योगशक्तिबलात् स्वपादे एकं चक्षुम् उत्पाद्य, तद्वारा तं शिष्यम् अपश्यत । अतः गौतमस्य नाम अक्षपादः इति ।

कदाचित् गौतमेन संगतः व्यासः वार्तालापावसरे गुरोः गौतमस्य मतं जीवब्रह्मणोः भेदं तर्कबलेन खण्डितवान् । तेन कुपितः तव मुखं चक्षुषा न द्रक्ष्यामि इति अवोचत् । तेन दुःखितमनः व्यासः, गुरुं प्रसन्नतां सम्पादयितुं पुरतः दण्डवत् प्रणाममकरोत् । तेन विगतक्रोधः गौतमः स्व पादे एकं चक्षुम् उत्पाद्य, तद्वारा अपश्यत् । इत्यपरा कथा ।

==गौतमः उत गोतमः==
न्यायदर्शनप्रवर्तकाचार्याणां नाम्नि केचन गौतमः उत गोतमः इति नाम्नि चर्चां कुर्वन्ति । तत्र केचन गोतमः इत्येव तस्य नाम इति अभिप्रयन्ति । तस्य प्रमाणत्वेन महाकवेः नैषधकर्तुः श्रीहर्षस्य युक्तिं प्रदर्शयन्ति तथा हि,

:'''मुक्तयेयः शिलात्वाय शास्त्रमूचेः सचेतसाम् । '''

::'''गोतमं तमवेत्यैव यथा वित्थं तथैव सः । ''' इति ।

न्यायदर्शनानुसारेण मुक्तिः आत्यन्तिकदुःखनिवृत्तिरेव अर्थात् मुक्तिदशायां न किमपि ज्ञानं सुखादिकं वा, अतः पाषणकल्पा मुक्तिः । चेतनानां शिलाभावाय मोक्षाय प्रणीतवान् गोतमः। स च न केवलं नाम्ना गोतमः किन्तु ’प्रकृष्टाः गौः’ गोतमः महावृषभः पशुरेवेति उपरितनश्लोकस्यार्थः अयं च न्यायसूत्रकर्तुः गोतमनामकत्वैव सङ्गच्छते ।

==गौतमस्य कृतिः==
*न्यायसूत्राणि

{{सप्तर्षयः}}
"https://sa.wikipedia.org/wiki/गौतमः" इत्यस्माद् प्रतिप्राप्तम्