"शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
शक्तिविशिष्टाद्वैतवेदान्तः [[वेदान्तः|वेदान्तेषु]] अन्यतमः । शैवदर्शनानां विकासे एषः [[वेदान्तः]] महत्स्थानं प्राप्तः अस्ति । अस्य वेदान्तस्य वेदसम्मताः कामिकादिवातुलान्ताः २८ शिवागमाः मूलभूताः सन्ति । शैवसंस्कृतिः प्रागैतिहासिकसंस्कृतिः इति केशाञ्चन विद्वांसानाम् आशयः । ५००० वर्षेभ्यः पूर्वम् आसीत् इति इतिहासविदानाम् आशयः । शैवदर्शनं शिवागमे उक्तानि ३६ तत्त्वानि साहितम् अस्ति । एषा कल्पना श्री नन्दिकेश्वरशिवाचार्येण रचितायां माहेश्वरसूत्रकारिकायां निरूपिता अस्ति । काश्मिरस्य शैवदार्शनिकाः सोमानन्द-अभिनवगुप्तादयाः
आगमाः वेदसमानाः इति अभिप्रयन्ति । आगमाः ईश्वरोक्ताः, नित्याश्च इति । आगमानाम् उगमपरम्परां सोमानन्दः (क्रि.श. ९००) स्वरचिते ’शिवदृष्टि’ नामके ग्रन्थे निरूपितवान् अस्ति ।

==इतिहासः==
शैवागमाश्रीतस्य लकुलीशपाशुपतदर्शनप्रवर्तकस्य लकुलीशस्य सम्बद्धाः शिलाभिलेखाः मथुरायां गुजरातराज्यस्य सोमनाथदेवालयेच उपलब्धाः सन्ति । श्रीसिद्धान्तम् अनुसृत्य शैवाद्वैत, शैवद्वैत, शैवद्वैताद्वैतवेदान्ताः प्रकाशिताः सञ्जाताः । एतेषां वेदान्तानां क्रमशः त्र्यम्बकः, अमर्दकः, श्रीनाथः च प्रवर्तकाः भवन्ति । शैवाद्वैतं द्विविधम् एकं पाशुपतदर्शनम्, अपरं सिद्धान्तशैवदर्शनम् । प्रथमदर्शनं बादरायणस्य प्रत्यधिकरणे निराकृतम् अस्ति । कामिकादितवातुलान्ताः २८ शिवागमाः ’सिद्धान्तः’ इति नाम । सिद्धान्तशैवः भोजदेवस्य तत्त्वप्रकाशिकाग्रन्थे प्रतिपादितम् अस्ति । शैवाद्वैतप्रतिपादकं शैवदर्शनं ’प्रत्यभिज्ञादर्शनम्’ इति व्यवहरन्ति । लकुलीश-पाशुपतदर्शनं ’शिवद्वैताद्वैत’ इति प्रथितम् अस्ति । पूर्वोक्तशैवदर्शनानाम् अपेक्षया विभिन्नम् । श्रीकण्ठशिवाचार्यस्य विशिष्टाद्वैतस्य उपरि लकुलीशपाशुपतदर्शनस्य प्रभावः दृश्यते । श्रीकण्ठशिवाचार्यस्य विशिष्टाद्वैतस्य श्रीरामानुजार्यस्य विशिष्टाद्वैतस्य च तात्विकषु विचारेषु साम्यता अस्ति । श्रीपतिपण्डिताराध्यस्य ’विशिष्टाद्वैतम्’ नामकम् वीरशैवदर्शनं प्रमुखं भवति । अस्य दर्शनस्योपरि लकुलीशपाशुपतस्य, श्रीकण्ठस्य, श्रीरामानुजदर्शनस्य च प्रभावः सत्याम् अपि स्वदर्शनवैशिष्टैः सहितम् इदं दर्शनं ’शक्तिविशिष्टाद्वैतम्’ इति प्रख्यातम् अस्ति । श्रीकरभाष्ये प्रारम्भे उक्तौक्त्या अस्य दर्शनस्य वैशिष्ट्यं प्रतिपादितम् । तद्यथा,

:श्रुत्यैकदेशप्रामाण्यं द्वैताद्वैतमतादिषु ।

::द्वैताद्वैतमते शुद्धे विशेषाद्वैतसंज्ञके ।

:वीरशैव्येकसिद्धान्ते सर्वश्रुतिसमन्वयः ॥

एषः एव सिद्धान्तः शिवशरणानां काले बसवेश्वरस्य, चन्नबसवेश्वरस्य, अल्लमप्रभोः, सिद्धरामस्य, तोण्टसिद्धलिङ्गेश्वरस्य च अनुभवेन परिष्कृत्य जनजनितषु वचनशास्त्रेषु प्रतिष्ठितम् अस्ति ।

==तत्त्वस्वरूपम्==
शक्तिविशिष्टाद्वैतदर्शने ’पति-पशु-पाश’ इति त्रयः पदार्थाः उक्ताः । पतिः नाम ब्रह्म अर्थः । पतिः केवल निर्गुणः न किन्तु चिदचित् शक्तिविशिष्टः भवति । अतः एनं तत्त्वं सकलम्, सकलनिष्कलम्, निष्कलम् इति च व्यवहरन्ति । पशुः (जीवः) शिवस्य अंशः शक्तिविशिष्टः च भवति । पाशो नाम जगत् । शिवादि पृथिव्यान्तं षड्-त्रिवंशत् तत्त्वात्मकम् इदम् । सत्यञ्च भवति । शिवांशरूपः जीवः षट्-स्थलमार्गात् परशिवः ब्रह्मसामरस्यं प्राप्नोति इति अस्य सिद्धान्तस्य मतम् । अस्य स्थूलस्वरूपं श्रीपतिपण्डितः स्वकृतभाष्ये ’अथ’ शब्दनिर्वचनसमये एवम् उक्तवान् अस्ति ,

'''निगमागमोभयवेदान्तप्रतिपादितः- भक्तिक्रियाज्ञानकाण्डत्रयविहित-स्थूलसूक्ष्मचिदचित्प्रपञ्चप्रकाशक-षट्स्थलपरशिवसाक्षात्कारकारण- बहुजन्मकृतशिवार्पितयजनयाजनतपोध्यानाद्यनेकपुण्यापूर्वफलक-शरीरत्रयगत-मलत्रयध्वंसक-कारुण्य-कल्याण-कैवल्य-विभूतित्रयक-अष्टावरण-पञ्चाचारसद्गुरु-करुणाकटाक्षलब्ध-शक्तिपाताद्यवच्छिन्नपरशिवेष्टलिङ्गधारणात्मक-पाशुपतदीक्षानन्तर्यामित्याथशब्दार्थो निर्णीयते'''<ref>श्रीकरभाष्यम्, अ.१,सू.१ </ref> इति ।

==शक्तिविशिष्टाद्वैतपदनिर्वचनम्==
वीरशैवदर्षनेषु ग्रन्थेषु अस्य दर्शनस्य नामानि उक्तानि सन्ति, तानि,

*शक्तिविशिष्टाद्वैतम्
*विशेषाद्वैतम्
*विशिष्टाद्वैतम्
*शिवाद्वैतम्
*द्वैताद्वैतम् /भेदाभेदम्
*शिवयोगः
*षट्स्थलम्

===शक्तिविशिष्टाद्वैतम्===
’शक्तिश्च शक्तिश्च शक्ती, ताभ्यां विशिष्टौ जीवेशौ, तयोरद्वैतम् इति । अत्रः शक्तिः चतुर्धा विभक्ता अस्ति । स्थूलचित्, स्थूल-अचित्, सूक्ष्मचित्, सूक्ष्म-अचित् इति भेदेन चतुर्धा ।

==अधाराः==

<references/>
"https://sa.wikipedia.org/wiki/शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्