"शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०१:
===सृष्टिक्रमः===
परशिवब्रह्म षट्त्रिंशत् तत्त्वात्मकतया परिणामो यथा भवति तत् निरूप्यते ।

शिवस्य इच्छाशक्त्येः ज्ञानशक्तिः अन्तरङ्गः भवति, क्रियाशक्तिः बहिरङ्गः भवति । ब्रह्म यदा इच्छाशक्तेः अन्तरङ्गस्य ज्ञानशक्तिं प्रविश्य ’सर्वज्ञोऽहम्’ इति अभिमानं प्राप्नोति तत् ’शिवतत्त्वं’ भवति । एषः एव यदा इच्छाशक्तेः बहिरङ्गस्य क्रियाशक्तिं प्रविश्य ’सर्वकर्ताहम्’ इति अभिमानं प्राप्नोति तत् शक्तितत्त्वं भवति । शक्तितत्त्वं इच्छाशक्तेः अन्तरङ्गज्ञानशक्तिं प्रविश्य ’अहमिदम्’ इति अभिमानं सम्प्राप्य तत् सदाशिवतत्त्वं भवति । इच्छाशक्तेः बहिरङ्गक्रियाशक्तिं प्रविश्य ’अहमिदम्’ इति अभिमानं सम्प्राप्य तत् ईश्वरतत्त्वरूपे परिणमति । पुनः शक्तितत्त्वं सागरतरङ्गन्यायानुसारं अभेदं प्राप्य, ’अहमिदम्’ इत्यत्र अहं इत्यस्य अहङ्कारस्य, इदं नामक प्रपञ्चस्य च अभेदज्ञानं सम्प्राप्य शुद्धविद्यातत्त्वं भवति । शुद्धविद्यातत्त्वं मयूराण्डरसन्यायेन भाविप्रपञ्चस्य निर्माणार्थं कारणीभूते सूक्ष्मपदार्थे अन्योन्याभावरूपभेदबुद्धिं प्राप्य ’मायातत्त्वं’ भवति । कला-अविद्यादि पञ्चतत्त्वानि पुरुषतत्त्वस्य आवरकाः भवन्ति । एतैः आवृतः पुरुषः ’कञ्चुकि’ भवति । परशिवस्य इच्छाशक्तियोगात् आविर्भूतः शिवांशः एव मायाशक्तौ प्रविश्य पुरुषतत्त्वो भवति । अस्य पुरुषतत्त्वस्य ’मायामल’ सम्बन्धात् अज्ञानं प्राप्य जीवः भवति ।

===मालावरण===
शिवांशः एव जीवः । अतः जीवस्य शिवे विद्यमनपूर्णत्वम् अज्ञानात् अपगत्य (आवृतो भूत्वा) ’अपूर्णोऽहम्’ इति अनुभवः भवति । तेन ’आणमल’ भवति । सर्वज्ञत्त्वम् अपगत्य ’किञ्चिज्ञोऽहम्’ इति अनुभवं प्राप्य ’मायामल’ भवति । सर्वकर्तृत्वम् अपगत्य ’किञ्चित्कर्ताऽहम्’ इति अनुभवं प्राप्य ’कार्ममल’ आवृतो भवति । पुरुषस्य किञ्चित्कर्तृत्वस्वरूपशक्तिः एव ’कलातत्त्वं’ भवति । किञ्चिज्ञत्वरूपशक्तिः एव अविद्यातत्त्वम्, अपूर्णत्वशक्तिः एव रागतत्त्वम्, अनित्यत्वरूपशक्तिः एव कालतत्त्वम्, अव्यापकशक्तिः एव नियतितत्त्वं च भवति । कार्योन्मुख्यगर्भिता इच्छाशक्तिः स्वगतज्ञानशक्ति क्रियाशक्तिषु च अन्योन्यभावरूपेण भेदबुद्धिप्रधानमायातत्त्वे प्रतिस्फुरति तदा प्रकृतितत्त्वं भवति । प्रकृतितत्त्वमेव सुख-दुख-मोहानां कारणीभूतं भवति । सत्वरजस्तमोगुणानां साम्यावस्थां प्राप्य प्रकृतितत्त्वं भवति । एतत् बुद्धिदि अहङ्कारतत्त्वादारभ्य पृथिवीतत्त्व पर्यन्तं विद्यमानानां २३ तत्त्वानां कारणं भवति । चराचरात्मकसृष्टिरचना एवं भवति । एनं क्रमं अभियुक्तोक्तौ एवं प्रतिपादितम् अस्ति,

'''शक्त्यण्डमृत्पिण्डमुपाददानो मायाण्डचक्रभ्रमणक्रमेण ।'''
:'''मूलाण्डदण्डेन मुहुर्विधत्ते ब्रह्माण्डभाण्डं भगवान् कुलालः ॥ इति ॥'''

===प्रमाणानि===
अस्मिन् सिद्धान्ते त्रीणि प्रमेयानि स्वीकृतानि । प्रत्यक्षम्, अनुमानम्, शब्दञ्च प्रमाणानि । एतानि विहाय अर्थापत्तिप्रमाणं स्वीकृतवन्तः इति ज्ञातम् अस्ति । वातूलतन्त्रस्य व्याख्याने गुब्बिमल्लणाचार्यः एनम् अंशं सूचितवान् अस्ति <ref>प्रमाणचतुष्टयाणाम् आगमप्रमाणमेव च ।
अतिशयप्रमाणमिति उदाहृतम् ॥ ’वातूलतन्त्रटीका’</ref>। तद्यथा,

'''चत्वारि तानि मानानि प्रत्यक्षादीनि हे द्विजाः ।'''

:'''प्रत्यक्षमनुमानं च शब्दार्थापत्तिरेव च ॥'''

'''संशयादिविनिर्मुक्ताचिच्छक्तिर्मानमुच्यते''' इति । संशयविपरीतज्ञानरहितां ज्ञानशक्तिं प्रत्यक्षमिति उपदिशन्ति । ’अनुमानां दृढव्याप्तौ परोक्षार्थावबोधकम्’ इति अनुमानं निर्दिशन्ति । आगमस्य अर्थं ज्ञातुम् आप्तः कः इति विवृतम् अस्ति । प्रत्यक्षादि प्रमाणैः सुनिश्चितार्थं यः ज्ञापयति सः एव परशिवः परमात्मः इति । अस्मिन् परशिवस्य वाक्यानि नाम वेदागमेभ्यः परमप्रामाण्यम् अङ्गीकृतम् अस्ति । शिवः सर्वज्ञः चेत् दृश्यमानसृष्टिः असर्वज्ञा इति अर्थः भवति<ref>दृश्यमानमसर्वज्ञं कल्पयेत् सोपपादकम् ।
पशुष्वेव पशुत्वाख्यं सर्वज्ञे शास्त्रतः स्थिते ॥ </ref> । एतदेव अर्थापत्तिप्रमाणमिति वदन्ति । एतेषु प्रमाणेषु उक्तेषु आगमस्य प्राधान्यम् अस्ति ।

===मोक्षस्वरूपम्===
अस्मिन् सिद्धान्ते परब्रह्मवस्तु लिङ्ग-अङ्गभेदेन विभक्तः अस्ति । ’अङ्ग(म्)’ इतिचेत् जीवात्मा .लिङ्ग(म्) इति चेत् परशिवः अर्थः वर्णितः अस्ति ।

"https://sa.wikipedia.org/wiki/शक्तिविशिष्टाद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्