"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

धार्यते इति धर्म:
'''धर्मशास्त्रम्''' भारतीयशास्त्रेषु अन्यतमम् ।... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

११:२१, १२ अक्टोबर् २०१३ इत्यस्य संस्करणं

धर्मशास्त्रम् भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाध्दर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरुपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणां नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपध्दतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्य्ते । अस्मिन् धर्मः (नाम) धार्मिकविधिः, व्रतम्, आचारः च, एतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः च अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥ इत्येतेषु उक्तेषु उक्तिषु प्राक्तनभारतीय आर्यसमाजस्य चतुर्वर्णीयाः आश्रमस्थाः च अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।

जैमिनिमते धर्मः इत्यस्य नीरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, यतोऽभ्युदतनिःश्रेयससिद्धिः स धर्मः’ । इति व्याख्यातम् अस्ति । एवमेव ’ध्रीयते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।

धर्मस्य प्रकाराः

धर्मा बहुविधा लोके श्रुतिभेदमुखोद्बवाः ।
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥
जातिधर्मा वयोधर्मा गुणधर्माश्च शोभने ।
शरीर-कालधर्माश्च आपद्धर्मास्तथैव च ॥
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः।[१]
देशधर्मः, कुलधर्मः, जातिधर्मः, वयो(आश्रम)धर्मः, गुणधर्मः, शरीर-कालधर्मः, आपद्धर्माश्च धर्मस्य प्रकाराः भवन्ति । वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, नैमित्तिकधर्मः, गुणधर्मश्च धर्मस्य पञ्चप्रकाराः सन्ति इति मनुस्मृतेः टीकाकारः गिविन्दराजः, गौतमधर्मस्य सूत्रस्य टीकाकारः हरदत्तश्च प्रतिपादयन्ति ।

धर्मस्य आकराः

धर्मस्य आकराः विभिन्नेषु ग्रन्थेषु प्रतिपादिताः सन्ति । तानि,

  • "वेदो धर्म मूलम् ।"

"तद्विदां च स्मृतिशीले ।" गौ.ध.सू, १,१.२

  • "धर्मज्ञसमयः प्रमाणम् ।"

वेदाश्च । आ.ध.सू,१ , १.१, २-३

  • उपदिष्टो धर्मः प्रतिवेदम् । बो.ध.सू १.१.१

स्मार्तो द्वितीयः । तृतीयश्शिष्टागमः । १, १,३-४
श्रुतिस्मृतिविहितो धर्मः ।
तदलाभे शिष्टाचारः प्रमाणम् । व,ध.सू १ ४-५

  • अथातो धर्मं व्याख्यास्यामः ।

श्रुतिप्रमाणको धर्मः ॥ हा.ध.सू

  • वेदोऽखिलो धर्ममूलम् । स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ म. २, ६

  • वेदाः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधु प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म, २ १-२

  • श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७

अधाराः

  1. पराशरधर्मसंहिता-माधवीयवृत्ति १.१७
"https://sa.wikipedia.org/w/index.php?title=धर्मशास्त्रम्&oldid=253149" इत्यस्माद् प्रतिप्राप्तम्