"हिमालयः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
पङ्क्तिः ८९:
[[श्रीहेमकुण्डसाहेब्]] -सिक्खधर्मस्य गुरुद्वारम् । सिक्खधर्मगुरुः [[गुरुगोविन्दसिंहः]] तस्य पूर्वजन्मनि एकस्मिन् अवतारे तपः कृत्वा मोक्षं प्राप्नोदिति केचन विश्वसन्ति ।
 
हिमालयपर्वतश्रेणी जगति एव अत्युन्नता पर्वतश्रेणी । पश्चिमस्य सिन्धुतः पूर्वस्य ब्रह्मपुत्रपर्यन्तं १५०० मैलपर्यन्तं प्रसृतः अस्ति हिमालयः । हिमालयस्य उत्तरभागे “त्रिविष्टप”नामिका (टिबेट्) विशाला प्रस्थभूमिः अस्ति । समुद्रतः १५,००० पादमिते औन्नत्ये अस्ति एषा पीठभूमिः । सर्वदा अपि हिमाच्छादितान् एतान् पर्वतान् “हिमाद्रिः” इति वदन्ति । [[गौरीशङ्करः]], [[धवलगिरिः]], [[काञ्चनगङ्गा]], नङ्गप्रभातः, नन्दादेवी, गोसाईनाथः, फूलचौका, शिवपुरिः, महाभारतः, चन्द्रगिरिः, इन्द्रस्थानं, भिरवन्दिः, कुमारपर्वतः, त्रिशूलः, कैलासः, केदारः, हेमकुण्डम्, [[अमरनाथः]] इत्यादीनि असंख्यानि गगनस्पर्शिशिखराणि सन्ति हिमालये । सिन्धुनद्याः पश्चिमे विद्यमानः “हिन्दुकुश”पर्वतः अपि हिमालयस्य एव कश्चन भागः । हिमाद्रेः पूर्वशाखा आग्नेयदिशि विद्यमाने ब्रह्मदेशे (बर्मा) अपि प्रसृता अस्ति ।
 
== हिमालयस्य विभागाः ==
पङ्क्तिः १२१:
== '''हिमालये विद्यमानानि तीर्थक्षेत्राणि''' ==
 
कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । [[अमरनाथः]] १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपाले पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बोधनाथः इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये ।
वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।
 
अस्य पर्वतस्य शिखराणि अत्युन्नतानि सन्ति । वस्तुतः भूमौ दश उन्नततमाः पर्वताः अपि हिमालये एव स्थिताः। एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति। अत एव अस्य पर्वतस्य अभिधानं हिमस्यालयः हिमालयः इति प्रसिद्धोऽस्ति । हिमालयात् [[गङ्गा]]-[[यमुना]]-[[शतद्रुः|शतद्रु]]-विपाशा-इरावती- वितस्ता-प्रभृतयः अनेकाः नद्यः उद्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति। अत एव अस्मिन् देशे प्रभूतानि विविधानि धान्यानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवश्च विविधानि रत्नानि उपलभ्यन्ते ।
ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीस्थलानि गत्वा सुखम् अनुभवन्ति । अस्मिन् एव पर्वते मानससरोवर-[[अमरनाथ]]-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयतीर्थस्थानानि सन्ति। तत्र पर्वतस्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति। अत्र देवीनां मन्दिराणि अपि सन्ति। एतस्मात् कारणात् अयं पर्वतः देवभूमिः इत्यपि कथ्यते ।
हिमाच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यः च भारतं रक्षति । अयं पर्वतः सुरक्षादृष्ट्या अतीव महत्त्वपूर्णः अस्ति । अत्र अनेकानि युद्धानि अपि अभवन् । अनेनैव कारणेन अस्माकं सुरक्षासैनिकाः अस्य रक्षायै तत्पराः भवन्ति ।
{|
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्