"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७२:
'''गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।'''

'''चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥'''<ref>वसिष्ठः, ८. १४</ref>

:गृहस्थाः सन्ध्यादि षट् कर्माणि करणीयानि । तानि उक्तानि,

'''संध्यास्नानं जपो होमो देवतानां च पूजनम् ।'''

'''आतिथ्यं वैश्वदेवश्च षट् कर्माणि दिने दिने ॥'''

:गृहस्थेभ्यः कानिचन कर्तव्यानि निर्दिष्टानि सन्ति । तानि भवन्ति,

अध्यापनं ब्रह्मयज्ञः, षितैयज्ञस्तु तर्पणम् ।

होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्॥<ref>मनुस्मृतिः, ३.७०</ref>

*वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।

*सन्यासाश्रमः- वानप्रस्तस्य अस्य च भेदः तावान् नास्ति । वानप्रस्थाश्रमे जटाधारिः भवति । अस्मिन् तु मुण्डितः भवति । अस्मिन् आत्मसाधनार्थं सर्वदा यतमानाः भवेयुः । उक्तञ्च,

वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।

चतुर्थमायुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥

सन्यासाश्रमधर्माः केचन पठिताः सन्ति । ते यथा,

न कुट्यां नोदरे सङ्गो न चैले न त्रिपुष्करे ।

नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥<ref>वसिष्ठः, १०-२३</ref>

अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।

आध्यात्म चिन्तागमानसस्य ध्रुवाह्यसौवृत्तिरुपेक्षकस्य ॥<ref>वसिष्ठः, १०-२३</ref>

*संस्काराः- संस्काराः सामान्यतया द्विधा विभक्ताः । जननपूर्वाः जननानन्तराणि च । संस्काराः षोडष उक्ताः सन्ति । तानि मनस्मृतौ उक्तानि सन्ति । यथा,गर्भादानम्, पुंसवनम्, सीमन्तोनयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकरणम्, कर्णवेध, विद्यारम्भः, उपनयनम्, वेदारम्भः, केशान्तः, समावर्तनम्, विवाहः, अन्तेष्टिः च ।
:संस्काराणाम् उद्देश्यं निरूपितं मनुस्मृतौ । तद्यथा,

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

गार्बैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः ।

बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।

महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥

"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्