"धर्मशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धर्मशास्त्रम्''' (Dharmaśāstra) भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाध्दर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरुपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणां नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपध्दतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्य्ते । अस्मिन् धर्मः (नाम) धार्मिकविधिः, व्रतम्, आचारः च, एतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः च अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥ इत्येतेषु उक्तेषु उक्तिषु प्राक्तनभारतीय आर्यसमाजस्य चतुर्वर्णीयाः आश्रमस्थाः च अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।<br>
 
जैमिनिमते धर्मः इत्यस्य नीरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, यतोऽभ्युदतनिःश्रेयससिद्धिः स धर्मः’ । इति व्याख्यातम् अस्ति । एवमेव ’ध्रीयते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।
पङ्क्तिः १२१:
*[http://www.payer.de/dharmashastra/dharmash00.htm/ Alois Payer's Dharmaśāstra Site (in German, with copious extracts in English)]
*[http://is1.mum.edu/vedicreserve/smriti/smriti_complete.pdf "Maharishi University of Management – Vedic Literature Collection"] A Sanskrit reference to the texts of all 18 Smritis.
 
[[वर्गः:धर्मशास्त्रम्]]
"https://sa.wikipedia.org/wiki/धर्मशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्