"छन्दः" इत्यस्य संस्करणे भेदः

छन्द:शास्त्रम् इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[छन्द:शास्त्रम्]]
'''छद्''' इति धातुना निष्पन्नः अयं शब्दः । छन्दसः आद्यः प्रवर्तकः आचार्यः [[पिङ्गलः]] । पद्यरचनायाः शास्त्रस्य छन्दः इति नाम । श्रुतिगतिनिरूपकस्य छन्दसो गमनानुकूलतदङ्गत्वमुच्यते पाणिनीयशिक्षायां '''छन्दः पादौ तु वेदस्य''' इत्यनेन । विफुलफलकस्य [[वैदिकसाहित्यम्|वैदिकवाङ्मय]]स्य कृत्स्नार्थवगतिश्छन्दः अवलम्बते । लौकिकवाङ्मयस्य त्वर्थप्रतीतेस्सुलभसाधनत्वेनेदमुपकरोति । स्तुतिपूजाप्रसादजननाद्यने- कार्थकं छन्दो नैकधा व्याख्यायत । ''छन्दांसि छादनात्'' । इति निरुक्तोक्त्या वेदार्थावारकत्वेनेदं सम्प्रायुज्यतेति ज्ञायते । मृत्युभीतानां देवानां वेदं प्रविश्य छन्दोभिरावृतत्वमुच्यते । तदुक्तं छान्दोभिरच्छादयन्यदेभिच्छादयंस्तच्छन्दसां चन्दस्त्वम् इति । [[वेद:|वेद]]मन्त्राणां बाहुल्येन छन्दोपनिबध्दत्वात् कालान्तरे वेदापरपर्यायत्वेन छन्दश्शब्दः प्रयुक्तः। अतो वैदिकार्थे छान्दसप्रयोगः, ''छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः'' इति निरुक्तवाक्यञ्च तमर्थं द्रढयति ।
 
"https://sa.wikipedia.org/wiki/छन्दः" इत्यस्माद् प्रतिप्राप्तम्