"भद्रगिरि अच्युतदास" इत्यस्य संस्करणे भेदः

thumb|150px|'''भद्रगिरि अच्युतदासः''' '''... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१२:१७, २५ अक्टोबर् २०१३ इत्यस्य संस्करणं

भद्रगिरि अच्युतदासः (Achyut dasa) सुप्रसिद्धः हरिकथाकारः आसीत् । हरिकथा नाम देवानां लीलादि कथाः । भद्रगिरि ग्रामस्य अधिदेवः श्री वीरविठलः अस्य गुरुः भवति । अस्य देवस्य सन्निधौ एव गीत्वा, नृत्यं कुर्वन् ग्रामस्य जनसमूहस्य पुरतः भजनादिकं कृत्वा कीर्तनकलायाः अभ्यासं कृतवान् । एषः स्वाध्यायी आसीत् । काशीमठस्य ’श्री श्री सुधीन्द्रतीर्थः’ अस्याः कलायाः कृते सङ्गीतादिभिः प्रोत्साहं दत्वा दासदीक्षाञ्च दत्तवान् । १९५३ तमे वर्षे दीक्षां प्राप्तवान् । एषः आध्यात्मसाधकः आसीत् । बहु वारं हिमालये पर्यटनम् अकरोत् । अच्युतदासः कन्नड, मराठि, तुळु, कोंकणि, हिन्द्यादि भाषासु कीर्तनकरणे समर्थः आसीत् ।

भद्रगिरि अच्युतदासः

जननं बाल्यञ्च

अच्युतदासः उडुपी जनपदस्य भद्रगिरि नामके ग्रामे १९३२ तमे संवत्सरे अजायत् । अस्य पूर्वजाः यक्षगानकलायां हरिकथायां च परिणताः आसन् । अस्य पितुः नाम ’वेङ्कटरमण पै’, माता रुक्मिणियम्मा च । अस्य कनिष्ठः सहोदरः स्वर्गस्थः भद्रगिरि केशवदासः अपि विश्वविख्यातः हरिकथाकारः । आविश्वे अस्य शिष्याः आसन् । एषः अस्याः भारतीयकलायाः विश्वे प्रचारं प्रसिद्धिञ्च कृतवान् । १९५१ तमे वर्षे महाशिवरात्रौ कश्चित् हरिकथाकारस्य कीर्तनकार्यक्रमम् आयोजितम् आसीत् । सः कारणान्तरेण अनुपस्थितः । तस्मिन् सन्दर्भे १९वर्षीयः आसीत् अच्युतदासः। प्रप्रथमतया पूर्वसिद्धतां विना सधैर्येण मञ्चारूढः अच्युतदासः तत्रत्येभ्यः उपस्थितेभ्यः जनेभ्यः हरिकथां श्रावितवान् । तत्र उपस्थिताः पण्डिताः प्रशंसितवन्तः एवं तेषां प्रीतिपात्रश्च अभवत् ।

कार्यम्

काश्मीरदारभ्य कन्याकुमारीपर्यन्तं यात्रां कृत्वा हरिकथाकीर्तनं तत्रत्यजनेभ्यः श्रावितवान् आसीत् । ’सुधीन्द्रतीर्थेण’ तप्तमुद्रां सम्प्राप्य ’मूलनारायणः’ इति अङ्कितेन सहस्राधिकानि कीर्तनानि रचितानि अच्युतदासेन । हरिकथापूर्वरङ्गः, गीतार्थचिन्तनम्, गुरुचरित्रम् (दत्तमहिमा) , श्रीनिवासकल्याणादि २५ ग्रन्थाः रचिताः सन्ति । “हरिकथामृतसिन्धुः” नामक ग्रन्थः षड् सम्पुटेषु रचितवान् अस्ति । एषः बृहद्ग्रन्थः रमणीयश्च वर्तते । अयं ग्रन्थः कीर्तनाभ्यासं ये कुर्वन्ति तेषां कृते विश्वकोशसदृशः अस्ति । आकाशवाण्यां दूरदर्शने च दासस्य कार्यक्रमाः बहुवारं प्रसारिताः । अच्युतदासः बेङ्गळूरनगरे विद्यमानस्य नेलमङ्गलप्रदेशस्य विजयविठलदेवालयस्य, दासाश्रम अन्ताराष्ट्रीयकेन्द्रस्य कीर्तनमहाविद्यालयस्य, अखिलकर्णाटकस्य कीर्तनपरिषदः च गौरवाध्यक्षः आसीत् । एतासां संस्थानां स्थापनय सहाय्यं कृतवान् । ’भारतज्योतिप्रकाशनम्’ नमिकायाः संस्थायाः संस्थापकः आसीत् । अनया संस्थया नैकान् ग्रन्थान् प्रकाशितवान् । ’दासवाणी’ पत्रिकायाः प्रधानसम्पादकः आसीत् । कर्णाटकसङ्गीत-नृत्याकाडम्याः सदस्यः आसीत् । अस्य हरिकथायाः नैकाः सान्द्रमुद्रिकाः प्रकटिताः प्रसिद्धाः च सन्ति ।

गौरवम्, पुरस्काराःच

भद्रगिरि अच्युतदासः नैकान् श्रेष्ठान् पुरस्कारान् प्राप्तवान् आसीत् ।

  • कीर्तनाचार्यः
  • कीर्तनाग्रेसरः
  • कीर्तनकेसरि
  • अखिलकर्णाटकस्य द्वितीय कीर्तनकारसम्मेलनस्य अध्यक्षः आसीत् ।
  • कर्णाटकस्य ’राज्योत्सव’पुरस्कारभाजः आसीत् ।
  • कनक-पुरन्दरगौरवपुरस्कारं प्राप्तवान् आसीत् ।
  • कर्णाटकसङ्गीत-आकाडम्याः १९८९-९० तमस्य वर्षस्य ’कर्णाटककला तिलक’ पुरस्कारं प्राप्तवान् आसीत् ।
  • ’नाडोज’ पुरस्कारं प्राप्तवान् आसीत् ।

मरणम्

अच्युतदासः २०१३ तमस्य वर्षस्य अक्टोबर्मासस्य २३ तमे दिनाङ्के बेङ्गळूरुनगरे मृतवान् । अनारोग्येण पीडितः आसीत् ।

वीथिका

 
हरिकथायां निरतः अच्युतदासः

बाह्यानुबन्धः

"https://sa.wikipedia.org/w/index.php?title=भद्रगिरि_अच्युतदास&oldid=253971" इत्यस्माद् प्रतिप्राप्तम्