"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 27 interwiki links, now provided by Wikidata on d:q477243 (translate me)
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
चार्वाकदर्शनं (Charvaka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्टयाचिन्तनगाम्भीर्यदृष्ट्या पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम्|दर्शनं]] चार्वाकदर्शनम् इति । [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति । किन्तु एतावता न निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति । अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः ।
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।

पङ्क्तिः १८:
तथाहि-
::देहस्य नाशो मुक्तिस्तु न ज्ञानात् मुक्तिरिष्यते ॥
::अत्र चत्वारि भूतानि भूमिवारयुर्नलानिलाःभूमिवार्यनलोनिलाः
::चतुभ्यःचतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
::..........................(सं.द.सं)

अनादिकालादेव सृष्टेः रहस्यं तत्त्वज्ञानिनां कृते अनुसन्धानस्य विषयोऽस्ति । सर्वासु दार्शनिकविचारधारासु स्वस्वदृष्टिकोणैरस्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।

दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्टिकोणेन मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तको यावत् चिन्तनं करोति तावत् उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।

भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यतेयत्विद्यते यत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति विश्वसनीयं नास्ति । यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते । एवञ्चेत् बुद्धिभेदात् एते स्थूलबुद्धयो दार्शनिकाः स्वकीयया स्थूलबुद्ध्या यदपि अवगन्तुं क्षमन्ते,तदेव मूलतत्त्वं स्वीकुर्वन्ति ।

अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् । महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् । वैदिकदर्शनेषु सततं तेषां वेदविरोधिनामाचार्याणां प्रहारा अपि समजायन्त ।

सृष्टितत्त्वानां प्रामाण्यम् अनुमानापेक्षया शब्दप्रमाणेन सुतरां गृह्यते । वेदाः शब्दप्रमाणरूपाः वर्तन्ते । वैदिकवाक्यैरेव दर्शनोक्तानां जीव-जगत्-ईश्वर-ब्रह्मादितत्त्वानां प्रामाणिकता सिद्ध्यति । पुनरपि अवैदिकदर्शनेषु वेदानां प्रामाण्यं स्वीकृतं नास्ति । अवैदिकदर्शनेषु चार्वाक-जैन-बौद्धाः प्रमुखाः सन्ति । एष्वपि जैन-बौद्धयोः तत्त्वचिन्तने सूक्ष्मा दृष्टिरस्ति । चार्वाकस्तु पूर्णतया स्थूलदृष्टिरस्ति ।

"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्