"निम्बूकरसः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
[[चित्रम्:Zitronenpresse-mit-zitrone.jpg|thumb|200px|right|निम्बूकस्य रसनिष्पीडनम्]]
 
[[चित्रम्:Homemade Lemonade.jpg|thumb|200px|left|कूप्यां सङ्गृहीतः निम्बूकफलरसः]]
[[चित्रम्:Citrus x Limon JPG1.jpg|thumb|200px|right|वृक्षे दृश्यमानानि निम्बूकानि]]
 
निम्बूकस्य रसः एव निम्बूकफलरसः । एतत् [[निम्बूकम्]] आङ्ग्लभाषायां Lemon इति उच्यते । तस्य फलरसः च Lemon Juice इति उच्यते । निम्बूकफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य निम्बूकफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि निम्बूकफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं निम्बूकफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । घर्मकाले तु अस्य निम्बूकफलरसस्य उपयोगः अत्यन्तम् अधिकप्रमाणेन क्रियते ।
Line ८ ⟶ ७:
 
अस्य निम्बूकफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् निम्बूकफलं प्रक्षाल्य यथा खण्डद्वयं स्यात् तथा कर्तनीयम् । अनन्तरं तस्य रसः निष्पीडनीयः । तस्मिन् रसे पर्याप्तमात्रेण [[जलम्|जलं]] [[शर्करा|शर्करां]] च संस्थाप्य सम्यक् योजनीयम् । अपेक्षितं चेत् तत्र [[एला|एलायाः]] [[मरीचम्|मरीचस्य]] च चूर्णम् अपि योजयितुं शक्यते । कुत्रचित् शर्करायाः स्थाने [[लवणम्|लवणं]] योजयित्वा अपि पिबन्ति । कुत्रचित् निम्बूकस्य रसं निष्पीड्य तथैव संरक्षितम् अपि प्राप्यते । तदवसरे साक्षात् तं रसं जले संस्थाप्य शर्करा योजनीया तावदेव ।
==चित्रवीथिका==
<gallery>
[[चित्रम्:Zitronenpresse-mit-zitrone.jpg|thumb|200px|right|निम्बूकस्य रसनिष्पीडनम्]]
[[चित्रम्:Homemade Lemonade.jpg|thumb|200px|left|कूप्यां सङ्गृहीतः निम्बूकफलरसः]]
[[चित्रम्:Citrus x Limon JPG1.jpg|thumb|200px|right|वृक्षे दृश्यमानानि निम्बूकानि]]
</gallery>
 
[[वर्गः:पेयानि]]
"https://sa.wikipedia.org/wiki/निम्बूकरसः" इत्यस्माद् प्रतिप्राप्तम्