"मलेरियारोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
[[चित्रम्:Anopheles stephensi.jpeg|thumb|200px]]
'''मलेरिया''' कश्चन [[रोगः|रोग]]विशेषः । एषः सांक्रामिकः [[रोगः]] भवति । प्लास्मोडियंजातीयः प्रोटोसोवन्-जीवाणुः अस्य रोगस्य कारणीभूतः जीवाणुः । पञ्चजातीयप्लास्मोडियं जीवाणवः मनुष्यस्य मलेरियारोगस्य कारणीभूताः भवन्ति । मलेरियारोगस्य तीव्रतायाः कारणीभूतः भवति प्लास्मोडियं फाल्सिपारम् जीवाणुः । सामान्यतया एषः मारणान्तिकः [[रोगः]] न । प्लास्मोडियं न्यूलेसिमक्याक् जीवाणुः मर्कटेषु मलेरियारोगस्य कारणीभूतः भवति । एषः रोगः [[अमेरिका]]खण्डस्य केषुचित् प्रदेशेषु, एष्या, आफ्रिकादिषु उष्णवलयेषु प्रसारितः अस्ति । प्रतिवर्षं सामान्यतया ३५०-५०० दशलक्षजनाः रुग्णाः भवन्ति । दशलक्षतः त्रिंशल्लक्षपर्यन्तं जनाः अनेन रोगेण मरणं प्राप्नुवन्ति । एतेषु अधिकाः [[आफ्रिकाखण्डः|आफ्रिकाखण्डस्य]] उपसहाराप्रान्तस्य जनाः । तत्रापि शिशवः अधिकसङ्ख्याकाः । सामन्यतया अनाफिलिस् इति स्त्रीमशकः दशति चेत् अनेन रोगेण पीडिताः भवन्ति । अस्य रोगस्य कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु [[मनुष्यः|मनुष्येषु]] रक्ताल्पता (अनीमिया), श्वासोच्छ्वासे क्लेशः (ट्याकिकार्डिया), हृदयस्पन्दनाधिक्यम् इत्यादीनि विशिष्टानि रोगलक्षणानि भवन्ति । एतैः सह [[ज्वरः|ज्वर]]-शैत्यादीनि लक्षणानि च दृश्यन्ते ।
"https://sa.wikipedia.org/wiki/मलेरियारोगः" इत्यस्माद् प्रतिप्राप्तम्