"साङ्ख्यदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''सांख्यदर्शनं''' (Samkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य जन्मदााप्रवर्तकः भागवान् [[कपिलः]] । [[वेदः|वेदेषु]] यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि [[बृहदारण्यकोपनिषत्|बृहदारण्यक]]-[[कठोपनिषत्|कठोपनिषद्]]-[[श्वेताश्वतरोपनिषत्|श्वेताश्वतर]]-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै एव चिन्तितो भूत्वानिश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मिकाप्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकाअनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति । प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिर्द्योत्यते, स तु प्रकर्षः तत्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका तर्हि मृत्तिकाभिन्नत्वेन तत्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।
 
==शब्दनिष्पत्तिः==
पङ्क्तिः ३१:
 
==मूलप्रकृतेरस्तित्वे प्रमाणानि==
व्यक्ततत्त्वानि सीमितानिपरिमितानि सन्ति किन्तु मूलप्रकृतिः व्यापिकाऽस्ति । व्यक्ततत्त्वानाम् अनेकत्वे या समन्वयात्मकता विद्यते तयापि मूलप्रकृतेः सिद्धिर्भवति । शक्यनुकूलया प्रवृत्त्या अपि मूलप्रकृतिः सिद्ध्यति । सृष्टौ कार्यकारणभावेनापि मूलकारणतया प्रकृतेः सिद्धिर्भवति । जगतः नानात्वे तत्कारणभूते अव्यक्ते च तादात्म्येनापि प्रकृतिसिद्धिर्जायते ।<br />
अव्यक्ते प्रायः व्यक्तप्रकृतेः सर्वेषां धर्माणां विपर्ययो भवति । स एकः अनाश्रितश्चास्ति । अर्थात् अव्यक्तं व्यक्तापेक्षया प्रायेण भिन्नमस्ति, किन्तु ‘कारणगुणात्मकत्वात्कार्यस्य’ इत्याधारेण काश्चन विशेषता व्यक्ताव्यक्तयोः तुल्याः सन्ति । यथा त्रिगुणमचेतनमित्यादि ।<br />
 
"https://sa.wikipedia.org/wiki/साङ्ख्यदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्