"विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
 
राजनीतिः धर्मः इत्यादिषु विवादास्पदविषयेषु लेखनिर्माणतः पूर्वं ताटस्थ्यदृष्ट्या लेखनिर्माणं कथमित्येतस्य पुटस्य सकृत् दर्शनं लाभाय भवेत् । विवादास्पदलेखानां पुनरवलोकनं शान्तमनसा कर्तव्यम् । क्रीडा, गणितम् इत्यादिषु अविवादास्पदलेखानां निर्माणावसरे अपि लेखनियमानाम् अवलोकनम् उत्तमम् ।
 
सत्यापनम्
 
विकिपीडियायाः लेखाः परीक्षार्हाः स्युः तन्नाम ये विषयाः विश्वासार्हमूलेभ्यः प्राप्ताः ते एव लेखनीयाः । विश्वासार्हमूलानां प्रमाणं प्राप्तुं यदि न शक्येत तर्हि सः विषयः सत्योपेतः चेदपि योजयितुम् अनर्हः । विवादास्पदविषयेषु तु अवश्यं विषयमूलाः योजनीयाः अधोटिप्पणीरूपेण वा । उल्लेखानां द्वारा पाठकाः भवता लिखितस्य सत्यत्व ज्ञास्यन्ति अपि च अधिकविवरणं प्राप्तुम् अर्हन्ति ।
 
’देहली भारतस्य राजधानी’ इत्येतस्य प्रमाणं नापेक्ष्यते यतः सर्वैः अपि इदं ज्ञातमस्ति ।
 
लेखस्य पाठकाय अन्यानि जालस्थानानि उपयोगाय भवेयुः इति चेत् तानि ’बाह्यसम्पर्कतन्तवः’ इत्यत्र दातुम् अर्हन्ति । तत्सम्बद्धानां ग्रन्थानाम् आवली अपि दातुं शक्या ’अधिकाध्ययनाय’ इत्यत्र ।
 
मूलसंशोधनाय न
 
मूलसंशोधनाय विकिपीडिया योग्यस्थलं न । तन्नाम येषु विषयेषु पूर्वप्रकाशितमूलानि न लभ्यन्ते ते अत्र न भवेयुः । कैश्चित् अङ्गुलीगणनीयैः संशोधिताः विषयाः अपि नान्तर्भवन्ति यतः तत् बहुभिः अङ्गीकृतः विषयः न इति ।
 
सामान्यगणनाः, अन्यभाषाभ्यः अनूदिताः विषयाः, प्रकाशितपूर्वस्य दृश्यश्रव्यपरिकराणां भाषान्तरणम् इत्यादीनि मूलसंशोधनेषु नान्तर्भवन्ति ।
 
अन्ये सम्पादनसम्बद्धनियमाः
विषयसम्बद्धाः
 
विकिपीडिया कश्चन सम्पादनयोग्यः विश्वकोशः वर्तते । अतः लेखाः विश्वकोशविषयसम्बद्धाः स्युः । तन्नाम विषयाः बहुभिः निरन्तरं चर्च्यमाणविषयसम्बद्धाः स्युः । विकिपीडियायाः नियमानुसारम् अत्रत्याः लेखाः जगतः प्रतिजनस्य तोषणाय वा, कस्यचित् वस्तुनः विक्रेत्र्याः विक्रयणसंस्थायाः कृते वा, जगतः प्रतिनगरं वीथिकायाः कृते वा न विद्यते । किन्तु काश्चन सहयोजनाः सन्ति येषु केचन विश्वकोशपरिधेः बहिः विद्यमानाः विषयाः योजयितुं शक्याः ।
 
विकिपीडियायाः लेखाः विषयसम्बद्धाः न तु विषयस्थशब्दसम्बद्धाः । अतः शब्दस्य विषये लिख्यमाणं विवरणं कोशे अन्तर्भवति । सः विषयः विकिकोशसहयोजनायां निवेशयितुं शक्यम् ।
 
मूलग्रन्थाः सर्वैः सुलभतया प्राप्येत इति धिया प्रकाशयितुम् इष्यते चेत् तच्च योजयितुं शक्यते विकिस्रोतसि ।
 
विकिपीडिया विकिमाध्यमसंस्थया पोष्यते । इयं संस्था लाभनिरपेक्षासंस्था यया बहुविधाः सहयोजनाः चाल्यन्ते -
 
 
 
आत्मनः विषये आत्मना साधितविशेषाणां विषये लेखनमपि अत्र नाङ्गीक्रियते । भवता महत् किञ्चित् यदि साधितं तर्हि अन्येन लिखितं भवतु नाम कदाचित् अग्रे । [[विकिपीडिया:आत्मचरितम्]] इत्यत्र अधिकं विवरणम् उपलभ्यते ।
 
 
कृतिस्वाम्यम्
कृतिस्वाम्ययुतं विषयम् अनुमत्या विना कदापि न निवेशनीयम् । लेखे विषययोजनावसरे स्वीयवाक्यैः एव योज्यताम् । अन्तर्जाले उपलभ्यमानाः सर्वोपि विषयः कृतिस्वाम्ययुताः एव अन्यथा जालपुटेन यदि न उद्घोषितम् इत्येतत् सर्वदा स्मर्यताम् ।
 
Conduct
व्यवहारः
विकिपीडिया स्नेहपूर्णं मुक्तं वातावरणं प्रोत्साहयति । कदाचित् गणे उष्णचर्चाः भवेयुः किन्तु सामान्यतः सदस्याः सर्वे अपि सौजन्येन परस्परं व्यवहरेयुः ।
 
सर्वदा सहसम्पादकानां विषये स्नेहपूर्णः विश्वासः स्यात् । अन्येन हानिः आचर्यते इति कदापि न चिन्त्यताम् । कस्यचित् आचरणं भवतः खेदाय यदि भवेत् तर्हि तस्य लेखस्य सम्भाषणपृष्ठे, तस्य योजकपृष्ठे वा सौजन्येन एव सन्देशः लिख्यताम् । कारणं पृच्छ्यताम् । ततः समस्या सुलभतया एव परिहृतः भवेत् ।
अस्मिन् विषये अधिकविवरणाय [[विकिपीडिया:आचारः]] दृश्यताम् ।
 
लेखनिर्माणम्
 
विकिपीडियायां लेखनिर्माणवसरे विकिपीडियायाः स्वशिक्षाविभागे प्रदत्तस्य मार्गदर्शनस्य उपयोगः स्वीक्रियताम् । नियमाः पाल्यन्ताम् उदाहरणाय ताटस्थ्यदृष्टिः । आधारग्रन्थानाम् उधृतीनां च उल्लेखः अवश्यं कर्तव्यः येन लेखस्य गुणः वर्धते । लेखनिर्माणाय भवता विकिपीडियायां सदस्यता अवश्यं प्राप्तव्या ।
 
लेखानां पुनर्नामकरणम्
 
कस्यचित् लेखस्य नाम न समीचीनमस्ति इति यदि भासेत तर्हि तत्रत्यान् विषयान् स्वीकृत्य कस्मिंश्चित् नूतने लेखे न योज्यताम् । तेन लेखेतिहासः रक्षितः न भवति (कृतिस्वाम्यदृष्ट्या सः लेखेतिहासः अस्माभिः रक्षणीयः भवति) । समीचीना रीतिः नाम सः लेखः नूतनं नामप्रति चालनीयम् । तन्निमित्तं भवता सदस्यता प्राप्ता स्यात् । लेखचालनात् पूर्वं तत्सम्बद्धाः नियमाः पठ्यन्तां जागरूकतया यतः पृष्ठचालनाय बहु विषयाः अवगताः स्युः । स्पष्टीकरणपृष्ठं यदि विद्यते तर्हि विकिपीडिया:स्पष्टीकरणपृष्ठानि इत्येतस्य विवरणानि पठनीयानि भवन्ति ।
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्माद् प्रतिप्राप्तम्