"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रं अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थितिरादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनं अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षं अस्ति इति सिध्यति। अत: उक्तम्-
'''यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥
:अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम्।
[[File:Planisphæri cœleste.jpg|thumb|आकाशमानचित्रम्]]
:प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ॥
इदं कालविज्ञापकं शास्रम् । मुहूर्त्तं शोधयित्वा क्रियमाणा यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्त्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्यौतिषशास्रस्य वेदाङ्गत्वं स्वीकृतम् । उक्तञ्चायमर्थ आर्चज्योतिषे, यथा –
ज्योतिषस्य त्रय: स्कन्धा: सन्ति -- १ सिद्धान्त, २ संहिता, ३ होरा । अत: उच्यते--
:'''वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः ।'''
:''सिद्धान्तसंहिताहोरा रूपस्कन्धत्रयात्मकम्।
:'''तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥''' (आर्चज्यौतिषम् ३६)
:वेदस्य निर्मलं चक्षुर्ज्योतिश्शास्त्रमकल्मषम्॥''
चतुर्णामपि वेदानां पृथक् पृथक् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते ।
ज्योतिश्शास्त्रं वेदानां चक्षु: इति कथ्यते।
(१) ऋग्वेदस्य ज्यौतिषम्- आर्चज्यौतिषम्, षट्त्रिशत्पद्यात्मकम् ।
(२) यजुर्वेदस्य ज्यौतिषम् –याजुषज्यौतिषम्, ऊनचत्वारिशत्पद्यात्मकम् ।
(३) अथर्ववेदस्य ज्यौतिषम्- आथर्वणज्यौतिषम्, द्विषष्ट्युत्तरशतपद्यात्मकम् ।
एतेषां त्रयाणामपि ज्यौतिषाणां प्रणेता लगधो नामाचार्यः । तत्र याजुषज्यौतिषस्य प्रामाणिकं भाष्यद्वयमपि प्राप्यते, एकं सोमाकरविरचितं प्राचीनम्, द्वितीयं सुघाकरद्विवेदिकृतं नवीनम् । एतस्य ज्यौतिषशास्त्रस्य त्रीणि वर्त्मानि, तदिदं शास्त्रं त्रिस्कन्धमुच्यते । तदुक्तम् –
:'''सिध्दान्तसंहिताहोरारुपं स्कन्धत्रयात्मकम् ।'''
:'''वेदस्य निर्मलं चक्षुर्ज्योतिश्शास्त्रमनुत्तमम् ॥'''
एतत्प्रवर्त्तका अष्टादश महर्षयः, ते च-
:'''सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः ।'''
:'''कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ॥'''
:'''लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः ।'''
:'''शौनकोऽष्टादशश्चैते ज्योतिः शास्रप्रवर्त्तकाः ॥'''
{| class="wikitable" border =1
|-
!नामानि!!कालाः!!ग्रन्थाः
|-
|आर्यभटः||५०० ई.||आर्यभटीयम्
|-
|वराहमिहिरः|| ६०० ई.||पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
|-
|ब्रह्मगुप्तः||७०० ई.||ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
|-
| लल्लः||७०० ई.||रत्नकोशः, धीवृध्दियन्त्रञ्च ।
|-
|उत्पलाचार्यः||१००० ई.||वाराहमिहिरग्रन्थानां टीकाः ।
|-
|श्रीपतिः||११०० ई.||सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
|-
|भोजदेवः||११०० ई.||राजमृगाङ्ककरणम्
|-
|भास्कराचार्यः||१११४ ई.||सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
|-
|केशवः||१५०० ई.||ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
|-
|गणेशः||१५५० ई.||ग्रहलाघवम् ।
|-
|कमलाकरः||१६५० ई.||सिध्दान्ततत्त्वविवेकः ।
|}
एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम् , भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति ।
केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।
 
[[वर्गः:ज्योतिःशास्त्रम्|ज्योतिश्शास्त्रम्]]
 
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रर्काशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।
==ज्योतिश्शास्त्रग्रन्थाः==
*[[बृहत्संहिता]]
 
==वाह्यसूत्राणि==
*[https://sa.wikisource.org/wiki/ऋग्वेदवेदाङ्गज्योतिषम् '''ऋग्वेदवेदाङ्गज्योतिषम्''']
 
 
[[वर्गः:ज्योतिःशास्त्रम्|ज्योतिश्शास्त्रम्]]
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्