प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

सम्पादनसारांशरहितः
[[File:Shri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
अद्वैतवेदान्तः (Advaita Vedanta) [[भारतीयदर्शनशास्त्रम्|दर्शनेषु]] अन्यतमः। न द्वैतम् अद्वैतम् । [[ज्ञानम्|ज्ञानस्य]] चरमस्थितिरेव अद्वैतमित्युच्यते । [[शङ्कराचार्यः|शङ्कराचार्याणाम्]] आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । अद्वैतदर्शनं [[शङ्कराचार्यः]] प्रस्थानत्रयेण श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुवर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम् उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः [[मोक्षः]] नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे [[आत्मा|आत्मनः]] स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते ।<br />
[[उपनिषदः|उपनिषन्मन्त्रसमूहस्यापि]] [[वेदान्तः]] इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् [[ब्रह्म]], तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न मिलति । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् [[उपनिषदः|उपनिषत्]] वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/255811" इत्यस्माद् पुनः प्राप्तिः