"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १:
[[File:Shri Shankaracharya.jpg|thumb|150px|[[शङ्कराचार्यः]]]]
अद्वैतवेदान्तः (Advaita Vedanta) [[भारतीयदर्शनशास्त्रम्|दर्शनेषु]] अन्यतमः। न द्वैतम् अद्वैतम् । [[ज्ञानम्|ज्ञानस्य]] चरमस्थितिरेव अद्वैतमित्युच्यते । [[शङ्कराचार्यः|शङ्कराचार्याणाम्]] आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् ।
आस्य मतस्य प्रवर्तकः [[शङ्कराचार्यः]] । अद्वैतदर्शनं [[शङ्कराचार्यः]] [[प्रस्थानत्रयम्|प्रस्थानत्रयेण]]
[[उपनिषदः|उपनिषन्मन्त्रसमूहस्यापि]] [[वेदान्तः]] इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् [[ब्रह्म]], तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न मिलति । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् [[उपनिषदः|उपनिषत्]] वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
|