"जटायुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''जटायुः''' [[विनता]]पुत्रस्य सूर्यसारथेः [[अरुणः|अरुणस्य]] पुत्रः । एषः पक्षिराजः गृध्रजातीयः । अस्य माता [[श्येनी]] | शेन्याः कनीयान् पुत्र एषः ।[[सम्पातिः]] अस्य ज्येष्ठः सहोदरः । भ्रातरावेतौ अतीव बलशालिनावास्ताम् । एकदा उभावपि सोदरौ आत्मनोः वेगबलं परीक्षितुमिच्छन्तौ अत्युपरि गगने डयमानावास्ताम् । यदा जटायुः तीव्रेण सूर्यातपेन सन्तप्तः अभवत्, तदा सम्पातिः तस्य उपरि स्वयं डयमानः स्वपक्षाच्छादनेन अनुजं ररक्ष । तथापि भास्करकरज्वालाभिर्दग्धगात्रः सन् निश्शक्तः जटायुः दण्डकारण्येऽपतत् । सम्पातिरपि दग्धपक्षतिः सन् द्क्षिणसमुद्रतीरे पपात । तदा तत्रैव तपश्चरन् निशाकरनामा तापसः एनमवलोक्य करुणयोपचचार । ततः कदापि सम्पातेः जटायुषा मेलनं नाभवत् । जटायुरपि तत्र दण्डकारण्ये कतिपयैरहोभिः वेदनामुक्तशरीरः सन् क्वचन पर्वतगुहायामुवास । एकदा वनवासिना श्रीरामेण सङ्गतः जटायुः, तेन पृष्टः स्ववृत्तान्तं तस्मै निवेदयन्, अहं तव पितुः दशरथस्य बाल्यमित्रम् इत्यपि प्रोवाच । तच्छुत्वा सन्तुष्टो रामः स्वस्य वनवासवार्तां श्रावयित्वा [[पञ्चवटी]]परिसररक्षणार्थं तं नियोजयामास । ततः [[रावणः]] यदा [[सीता]]पहरणं कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा, रावणेन कृत्तपक्षतिः सन् भूमावपतत् । सीतामन्विषतो रामलक्ष्मणयोराग्मनंरामलक्ष्मणयोरागमनं प्रतीक्षमाणः, रामागमनपर्यन्तमपि प्राणान् सन्धार्य ततः रामाय रावणकृतसीतापहरणोदन्तं विनिवेद्य मृतवान् । रामोऽपि यथाविधि तस्यान्तिमसंस्कारं विधाय कृतकृत्यॊ बभूव । जटायोः कर्णिकारः,शतगामी, सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च पुत्राः ।
 
 
"https://sa.wikipedia.org/wiki/जटायुः" इत्यस्माद् प्रतिप्राप्तम्