"श्रीनगरम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q170115 (translate me)
No edit summary
पङ्क्तिः ५७:
|website = www.srinagar.nic.in
}}
'''श्रीनगरं''' [[भारतम्|भारतस्य]] [[जम्मूकाश्मीरराज्यम्|जम्मूकाश्मीरराज्यस्य]] ग्रीष्मकालीना राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम्‌ । श्रीनगरं जम्मुकाश्मीरराज्यस्यजम्मु[[काश्मीर]]राज्यस्य राजधानी अस्ति । [[जम्मू]]तः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं [[झेलम्]]नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते ।
काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते ।
श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।
"https://sa.wikipedia.org/wiki/श्रीनगरम्" इत्यस्माद् प्रतिप्राप्तम्