"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०४:
मध्यप्रदेशस्य [[उज्जयिनी|उज्जयिन्याम्]] आदिकविः [[कालिदासः]] (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । [[पुराणम्|पुराणकाले]] अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव [[कृष्णः|कृष्णबलरामयोः]] गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । [[भारतम्|भारते]] विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र [[दीपावलिः|प्रतिदीपावल्यां]] दीपोत्सवः महता वैभवेन आचर्यते । [[गरुडपुराणम्|गरुडपुराणोक्त]]सप्त([[अयोध्या]], [[मथुरा]], [[काशी]], [[काञ्ची]], [[अवन्तिका]], [[पुरी]], [[द्वारावती]])पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासपर्यन्तं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासपर्यन्तम् उत्तमं वातावरणं भवति ।
 
== महाकुम्भोत्सवः ==
== महाकुम्भमेला ==
 
द्वादशवर्षेषु एकवारम् अत्र महाकुम्भमेलामहाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । [[नर्मदानदी|नर्मदानद्यां]] स्नात्वा पुनीताः भवन्ति । मेलासमयेउत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । [[उज्जयिनी|उज्जयिन्यां]] समयनिर्धारणसाधनानि सन्ति इत्यतः [[भारतम्|भारतस्य]] ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः [[भारतम्|भारते]] [[देहली]]-[[जयपुर्]]-[[वाराणसी]]नगरेषु राराजन्ते । [[जयपुरम्|जयपुरराज्यस्य]] राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यस्य]], [[चन्द्रः|चन्द्रस्य]], [[नक्षत्रम्|नक्षत्राणां]] च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।
 
== साहित्यम् ==
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्