"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
'''न्यायदर्शनं''' (Nyaya) [[भारतीयदर्शनशास्त्रम्|भारतीयदर्शनेषु]] अन्यतमम् । वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । [[काव्यमीमांसा]]याः लेखकः [[राजशेखरः|राजशेखरोऽपि]] कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं [[कौटिल्यः]] आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपादितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगि अस्ति ।<br />
प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते । एवञ्चेत् न्यायविद्यायाः प्रतिपादनमेव न्यायदर्शनस्य प्रयोजनमस्ति । केषांचनकेषाञ्चन विदुषां मतानुसारेण न्यायशास्त्रे अनुमानस्य प्राधान्यमस्ति अतएवअत एव '''पञ्चावयववाक्यं न्यायः''' इत्यपि उक्तिर्व्यवहृता दृश्यते । तेन सिद्ध्यति यत् न्यायशास्त्रे अनुमानस्य विश्लेषणं सर्वाधिकमहत्वपूर्णमस्ति । आन्वीक्षिकी न्यायेन कथं साम्यंसाम्यम् आदत्ते इत्यस्मिन् सन्दर्भे इदं वक्तुं शक्यते यत् प्रत्यक्षदृष्टानां शास्त्रश्रुतानां च विषयाणां तात्त्विकस्वरूपस्य ज्ञापयित्री विद्या आन्वीक्षिकी भवति इति। व्युत्पत्त्यनुसारं तु '''प्रत्यक्षागमाभ्यांप्रत्यक्षागमाभ्याम् ईक्षितस्य अन्वीक्षणं यस्यां सा आन्वीक्षिकी''' इति स्वीक्रियते । न्यायस्य प्रतिपाद्यमपि एवंविधमेवास्ति, अतः उभयोः साम्यमस्ति ।<br />
न्यायविद्यायान्यायविद्यायाः मूलस्रोतांसिमूलस्रोतसः कालनिर्णयस्य दृष्ट्या इदं तु सम्भवं नास्ति यत् अमुक् कालेऽस्यअमुककालेऽस्य शास्त्रस्योत्पत्तिः संजाता, किन्तु [[उपनिषदः|उपनिषत्सु]] विशेषतो बृहदारण्यके स्मृतिज्ञानचर्चायां तर्कस्योपस्थापना दृश्यते । तेन अनुमीयते यत् उपनिषत्कालात्पूर्वमेव न्यायस्य प्रारम्भिकं स्वरूपं तर्करूपेण वादविद्यारूपेण वा समुद्भूतम् । '''आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः''' द्वाराइति वचनद्वारा श्रवणेन सह मननस्यापि उपदेशो विहितः । मननं पुनः तर्कानुकूलं उपयोगि भविंतुभवितुं शक्नोति । एवमेव मीमांसादर्शने मूलतः श्रौतकर्मणः प्रसङ्गे विरोधपरिहारस्य कृते तर्कपद्धतेराश्रयो गृहीतः । पदार्थानां परिकल्पनायाः आश्रयआश्रयभूताः उपनिषदः एव उपनिषदामित्यपिइत्यपि तत्र सूचितम् । तेन स्पष्टीभवति यद् वैदिकसाहित्यमेव न्यायदर्शनस्य मूलस्रोतो विद्यते । तदेव च तदुत्पत्तेः तत्परिकल्पनाया वा आधारोऽस्ति । अर्थात् न्यायशास्त्रम् अर्वाचीनं नास्ति प्रत्युत वैदिकसाहित्ये तदीयप्रतिपाद्यस्य मूलरूपेण विद्यमानतया यथा [[वेदः|वेदानां]] प्राचीनता मन्यते तथैव न्यायशास्त्रस्य प्राचीनताऽसन्दिग्धाऽस्ति ।
 
==इतिहासः==
पङ्क्तिः १०:
==पदार्थ-प्रमाणानि==
न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् ।
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात्तत्त्वज्ञानात् मोक्षः <ref>"प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात्तत्त्वज्ञानात् निश्रेयसाधिगमः", -न्यायसूत्रम्, गौतमः, १-१-१ । </ref> भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।
 
न्यायमतेन ज्ञानं प्रत्येकस्य वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विधाद्विविधं जायतेभवति‌-स्मृतिरूपं स्मृतिरूपम् अनुभवरूपं च । ज्ञातविषयंज्ञातविषयकं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु संशय-तर्क-संशय-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।<br />
 
भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयेऽपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानानन्तरं तत्कृते इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वम् कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतोहि तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पत्स्यते ।<br />
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्