"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
देश-विदेह, मिथिला, कालः १००-१८० भारतीयदर्शननेशु वेदान्तदर्शनं मुकुटप्रायम्। तत्रापि अदैतसिद्धान्तः भारतदेशे विदेशेषु च प्रथते। स च सिद्धान्तः बादरणसुत्रग्राहेहिभिः परमपूज्यैः श्री शङ्कभगवत्पादैःसाक्षात्कृत्य सार्वत्र प्रसारितः
व्याख्यान कृतम्। तत्पश्चात् अनेकैः विद्वभिः परिवाजकै च शाङ्करसिद्धान्तः जनमानसे स्थरीकृतः। शङ्करोत्तरादैव्तसिद्धान्तप्रचारकेषु परं प्रसिदि आप्ताः वाचस्पतिमिश्राः।
यद्यपि एतेषां विषये स्पष्टः विचार नोपलभ्यते ।तथापि विमर्शकाः लब्धप्रमाणानि प्ररामृश्य एते नवमशतकस्य मध्यभागे मिथिलानगरे व्यरजन्त इति वदन्ति । संस्क्तसाहित्याव्लोक्कने मिषेति उपाह्व्युताः बह्वः अत्तिपथमायान्ति । तन्त्रपुराणधर्मशास्त्र –ज्योतिषसांख्ययोगादि नानाविधविचारग्रन्थाःएषां वेदान्तमतानुयायिनां मिश्राणां नाम्नि एव सन्ति ।
एते वाचस्पतिमिश्राः शाङ्करसूत्राभाष्यं प्रौढरीत्या व्याचत्तुः। तस्य व्याख्यानस्य नाम भामतीति। तस्य व्याख्यानं तादृशी प्रख्यातिम् अलभत यथा ”भामतीकाराः” इत्येवं ख्यातिं लेभिरे। एतेषां पाण्डित्यम् असदृशं प्रखरं च आसीत् । सर्वदर्शनविषयाः एतैः स्पृष्टाः। अतः एव एतान् “षड्दर्शनटीककृदाचार्याः” “द्वादशदर्शनकाननपंचाननाः” इति सुधियः स्तुवन्ति । एते मिथिलानगरस्य नृगराजस्य आस्थाने स्थित्वा नैकग्रन्थान् प्राणैषुः। त्रिलोचनाख्यान् विदुषुः मिश्राः स्वगुरुत्वेन् उररीच
एतेषां विषये एका रोचककथा श्रुतिपथम् आयाति । एते सूत्रभाष्यव्याख्यानलेख्यानकाले सम्पूर्णतया विचारे निमग्नाः। ऊढाः ते पत्नीं गृहं समस्तऎहिकसुखानि विस्मृत्य शाङ्करान्तरङ्गाः भूत्वा व्याख्यानलेखनपरा अवर्तन्त। पत्नी तु साध्वी पतिपरायणा बहुवर्षपर्यन्तं तान् असेवत्। ग्रन्थसमापतौ पुनः ऎहिकलोकमागताः ते पत्नीन् अभिज्ञातवन्तः बहुवत्सरपर्यन्तं कृतां तस्याः सेवां पुरस्कृत्य तस्याः नाम एव स्वव्याख्यानस्य नाम कृतवन्तः भामतीति।
एभिः रचिताः ग्रन्थाः
१. न्यायकणिका-श्री मण्डनमिश्रैः लिखितस्य विधिविवेक ग्रन्थस्य व्याख्यानम्।
२. तत्वबिन्दुः_कुमारिलभट्ट्स्य शाब्दबोधप्रकारस्य विवरणम्।
३. न्यायवार्तिकतात्पर्यटीका-उध्योतकरस्य वात्स्यायनभाष्यवार्तिकस्य व्याख्यानम्।
४. न्यायसूचीनिबन्धः-न्यायशास्त्रविषयक ग्रन्थः।
५. साख्यतत्तवकौमुदी-ईश्वरकृष्णकृत सांख्यकारिकायाः व्याख्यानम्।
६. तत्तव शारदी-व्यासकृत योगसूत्रभाष्यस्य व्याख्यानम् ।
 
 
सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्था ब्रह्मसूत्रशारीरकभाष्यस्य भामत्यन्ते निर्दिष्टाः –
"https://sa.wikipedia.org/wiki/वाचस्पतिमिश्रः" इत्यस्माद् प्रतिप्राप्तम्