"कार्त्तिकेयः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Murugan by Raja Ravi Varma.jpg|thumb|200px]]
'''कार्तिकेयः''' (तमिलुभाषायां मुरुगन्) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः । विशेषतः तमिलुप्रान्ते एनं पूजयन्ति । एवं दक्षिणभारते, [[सिङ्गापुरम्|सिन्गपूर्]]-[[श्रीलङ्का]]-, [[मलेष्या]]-[[मारिषस्]]-देशेषु पूजयन्ति। श्रीलङ्कादेशस्य दक्षिणे भागे विद्यमानं कार्तिकेयस्य अत्यन्तं श्रेष्ठं पवित्रतमं कतरगामामन्दिरं बौद्धाः हैन्दवाश्च् पूज्यभावेन पश्यन्ति । एवमेव मलेषियादेशस्य पिनाङ्ग्, क्वाललुम्पूर्प्रान्तस्य चीनजनाः च ताय्पूसाम्-अवधौ कार्तिकेयं पूजयन्ति । [[कर्णाटक|कर्णाटके]] दक्षिणजनपदे विद्यमानं सुब्रह्मण्यक्षेत्रमपि बहु प्रसिद्धिं प्राप्तमस्ति ।
 
==इतिहासः ==
[[कुक्केसुब्रह्मण्यम्|कुक्केसुब्रह्मण्यक्षेत्रं]] धारानदीतीरे अस्ति । [[पुराणानि|हिन्दुपुराणग्रन्थानाम्]] आधारेण ज्ञायते यत् देवसेनापतिः कुमारस्वामी तारकशूरपद्मासुरादि राक्षसान् मारयित्वा अत्र आगतवान् इति । तस्य रक्तसिक्तम् आयुधम् अस्यां नद्यां धारायां प्रक्षालितवान् । एतदनन्तरं धारा कुमारधारा इति प्रसिद्धिं प्राप्तवती । युद्धसमाप्तेः अनन्तरं सहोदरः [[गणेशः]], अन्यैः वीरबाह्वादिभिः सहचरैः साकं मिलित्वा कुमारपर्वतस्य शिखरभागं प्रति आगतवान् । देवेन्द्रप्रभृतयः एतस्य स्वागतं कृतवन्तः । राक्षसैः सह जाते युद्धे सः विजयं प्राप्तवान् इत्यतः देवेन्द्रः ’देवसेनानामिकां'देवसेनानामिकां मम कन्यकां वृणोतु’ इति प्रार्थनां क्रुतवान् । अस्तु इति अङ्गीकारं प्रदर्शितवान् कुमारस्वामी । विवाहस्तु मार्गशीर्षशुद्धषष्ठ्यां सुसम्पन्नः । अस्मिन् विवाहे एवं सिंहासनारोहणसमारम्भे च [[ब्रह्मा]], [[विष्णुः]], महेश्वरादि देवताः उपस्थिताः आसन् । अस्मिन्न् शुभे कार्यक्रमे विविध नदीनां जलम् अनीतमासीत् । इदं पवित्रं [[जलम्]] भूस्पर्शं क्रुत्वा नदिस्वरूपं सम्प्राप्य ’कुमारधारा’'कुमारधारा’ इति प्रसिद्धिं प्राप्तवती ।
गरुडस्य पीडाम् असहमानः महाशिवभक्तः नागराजः वासुकिः, [[कुक्केसुब्रह्मण्यम्|कुक्केसुब्रह्मणय़क्षेत्रस्य]] बिल्वद्वारानामिकायां गुहायां तपसः आचरणम् अकरोत् । तस्मै नागराजाय (वासुक्याः कृते) दर्शनभाग्यं दत्तवान् कुमारः । एवं परमभक्तस्य साकं शाश्वतरूपेण अत्रैव वासं करोमि इति अभयं दत्तवान् । अतः यत् वासुकेः कृते अर्चनादिकं समर्प्येत तत् सर्वमपि सुब्रह्मण्याय समर्पितमेव भवति ।
अत्र प्रतिवर्षं मार्गशीर्षशुद्धषष्ठ्यां रथोत्सवः भवति । एवं विशेषपूजा अपि भवति । अस्यैव दिनस्य ’चम्पाषष्ठी’'चम्पाषष्ठी’ इति व्यवहारः।
==बाह्यसम्पर्कतन्तुः==
* [http://www.pttemple.com/ Registered Trustees Nattukottai Chettiars' Temple, Penang, Malaysia]
"https://sa.wikipedia.org/wiki/कार्त्तिकेयः" इत्यस्माद् प्रतिप्राप्तम्