"ज्ञानम्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
'''ज्ञानम्''' इत्येतस्य शब्दस्य विविधाः अर्थाः विद्यन्ते -
:१ ज्ञा (अवबोधने) भावे '''ल्युट्''' (३-३-११५) । '''ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।''' (रघुवंश-१-२२)

:२ मोक्षविषयिणी बुद्धिः

:३ परमात्मनः स्वरूपं यत् ज्ञापयति तत् । ज्ञायतेऽनेनात्मा-ज्ञा कर '''ल्युट्''' (३-३-११७) । इदं ज्ञानम् आत्मज्ञानसाधकम् ।
पङ्क्तिः २७:
:::'''तत्त्वज्ञानार्थचिन्तनम्''' - तत्त्वज्ञानस्य फलरूपस्य मोक्षस्य चिन्तने मग्नता ।
:::एतैः गुणैः आत्मज्ञानं प्राप्यते इत्यतः इदमेव ज्ञानम् । एतस्य व्यतिरिक्तं सर्वम् अज्ञानम् इति मन्तव्यम् ।
:::'''एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा''' गीता १३-११

:४ कर्तव्य-कार्यविषयकं ज्ञानम् - अनुष्ठातव्यस्य कार्यस्य विषये अवगमनम् ।
:::'''ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः''' गीता १८-१८ इदं ज्ञानं त्रिविधम् - सात्त्विकं, राजसं, तामसं चेति ।
:::'''ज्ञानं कर्म च कर्ता च त्रिधैव गुनभेदतः । प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तान्यपि''' - गीता १८-१९
:::ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानः आत्मा ज्ञानैककारः, अविनाशी, विकाररहितः, फलादिसम्बन्धविहीनः इति अवगमनात् सर्वेषु वस्तुषु समदृष्टिः एव '''सात्त्विकं ज्ञानम्''' ।
पङ्क्तिः ३७:
::::सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
::::पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
::::यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ - गीता १८-२०, २१,२२

:५ चित्तवृत्तिनिरोधरूपः योगः
:::एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः । आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥

:६ (अद्वैतमते) '''अहं ब्रह्म''' इति उपासना ।
:::ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।

:७ जीव-ईश्वर-जगत्-इत्येतस्याः भ्रान्तेः अधिष्ठानभूतं स्वयंप्रकाशं चैतन्यम् ।
पङ्क्तिः ५४:

:११ इन्द्रियम् - ज्ञायतेऽनेन ज्ञा कर '''ल्युट्'''

[[वर्गः:हिन्दुचिन्तनानि]]
"https://sa.wikipedia.org/wiki/ज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्