"अग्निः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
[[Image:Agni god of fire.jpg|thumb]]
{{हिन्दूधर्मः}}
'''अग्निः''' पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । '''दक्षप्रजापतेः''' आत्मजा '''स्वाहा''' अग्निदेवस्य पत्नी । '''इक्ष्वाकु'''वंशसमुद्भूतस्य '''दुर्योधन'''स्यात्मजा '''सुदर्शना''' अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय '''कपिध्वजोपेतं''' '''रथं''','''गाण्डीवधनुः''','''अक्षयतूणीर'''ञ्च प्रायच्छत् । अग्निना एव '''श्रीकृष्णाय''' चक्रायुधं प्रदत्तम् । अयं '''भृगु'''मुनेः शापकारणेन सर्वभक्षकोऽभवत् । '''इन्द्राय''' यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,'''सीतायाः''' पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । '''अनलः''' इति तस्यापरं नाम ।| '''नास्ति अलं पूर्तिः अस्य भुञ्जानस्य''' इति कारणेन '''अनलः''' इत्युच्यते ।
==ऋग्वेदे अग्निः==
ऋग्वेदे विद्यमानेषु '''१०२८''' सूक्तेषु '''२१८''' सूक्तानि अग्निपराणि सन्ति । ऋग्वेदस्य प्रथमे सूक्ते '''अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम्''' इत्यत्र अग्नेः स्तुतिः सन्दृश्यते । '''अरणीमन्थनम्''' इति काचित् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । '''मातरिश्वा''','''जातवेदाः''' इत्यादीनि अपराणि नामानि । गृहस्थस्य '''आहवनीय'''-'''गार्हपत्य'''-'''दक्षिणाग्नी'''नामाराधनम् आद्यं कर्तव्यम् । तदेव''' अग्निहोत्रम्''' इत्युच्यते । गृहस्थः निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् ।
"https://sa.wikipedia.org/wiki/अग्निः" इत्यस्माद् प्रतिप्राप्तम्