"आश्रमव्यवस्था" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
'''शतायुर्वै पुरुषः''' इति प्रायोवादानुसारं मानवजीवनं शतवार्षिकम् अस्ति। सर्वोऽपि शतायुर्न भवितुमर्हति। जिजीविषेदेकैकोऽपि शतं समा इति भारतीयसंस्कृतिरिदं शतवार्षिकं मानवजीवनं चतुर्षु भागेषु विभाजयति। त इमे भागा '''आश्रम''' पदेनाभिधीयन्ते। '''ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासः''' इति चत्वारः एते आश्रमाः । सर्वोऽपि लोकः स्ववयोऽनुरूपमाश्रममाश्रयेत् । तदाश्रमनिर्दिष्टान् नियमान् पालयेदिति च पूर्वं व्यवस्था परिकल्पिताऽसीत् ।

सर्वेष्वपि धर्मसूत्रग्रन्थेषु, [[स्मृतयः|स्मृति]]र्गन्थेषु च एते आश्रमा वर्णिताः सन्ति । आ उपसर्गपूर्वेकात् '''श्रम''' धातोः '''घञ्''' प्रत्यययोगे '''आश्रम''' शब्दोऽयं निष्पद्यते । आ शाम्यन्ति अस्मिन् इति आश्रम:’ इति व्युत्पत्या अस्य अर्थः स्पष्टः ।

बाल्ये वयसि अभ्यस्तविद्यानाम् तारुण्ये भोगाभिलाषिणाम्, वार्द्धके वयसि मुनिवृत्तीनाम्, अन्ते परमात्मध्यानेन देहत्यागिनाम् इति रघुनामन्वयं विवक्षता महाकविना कालिदासेन आश्रमचतुष्टयमभिवर्णितम् । तथा हि-
:शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
:वार्द्धके मुनिव्रुत्तीनां योगेनान्ते तनुत्यजाम्॥ इति ॥ [रघुवंशः, प्रथमसर्गः, आष्टमश्लोकः]

आश्रमधर्मपालनेन मानवजीवनस्य चतुर्वर्गाणां धर्मार्थकाममोक्षाणां फलप्राप्तिर्भवति। तथा हि-ब्रह्मचर्याश्रमे विद्याध्ययनेन, तपोमयजीवनयापनेन, सर्वविधगुणानां सङ्ग्रहणेन च धर्मप्राप्ति:।

'''गृहस्थाश्रमे''' भौतिक-शारीरक-मानसिकानां समुन्नत्या, भौतिकविषयाणाम् उपभोगेन, दाम्पत्यजीवनयापनेन वंशप्रतिष्ठायै सन्तानोत्पत्या च धर्मार्थकामानां त्रिवर्गफलसिद्धिः ।

पङ्क्तिः १८:
#[[वानप्रस्थाश्रमः]]
#[[संन्यासाश्रमः]]

==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/आश्रमव्यवस्था" इत्यस्माद् प्रतिप्राप्तम्