"अष्टावक्रः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ७:
राजा जनकः अष्टावक्रस्य परीक्षां कर्तुम् इच्छन् तम् अपृच्छत् - 'त्रिंशत् अवयवाः, द्वादश अंशाः, चतुर्विंशतिः पर्वाणि, षष्ठ्यधिकत्रिशतम् अक्षराणि इत्येतैः युक्तस्य वस्तुनः ज्ञानी कः ?' इति । झटिति अष्टावक्रेण उक्तं - 'राजन् ! २४ पक्षैः युक्तः, षडर्तुभिः युक्तः, १२ मासैः युक्तः ३६० दिनैः युक्तः संवत्सरः भवतः रक्षणं करोतु' इति । अष्टावक्रेण दत्तं समीचीनम् उत्तरं श्रुत्वा राजा जनकः पुनः अपृच्छत् - 'सः कः यः सुप्तावस्थायामपि नेत्रनिमीलनं न करोति ? जन्मनः अनन्तरमपि कः चलने असमर्थः तिष्ठति ? कः हृदयविहीनः ? कः वेगेन वर्धते ?' इति । अष्टावक्रः अवदत् - 'हे जनक ! सुप्तावस्थायामपि मीनः नेत्रं न निमीलयति । जन्मनः अनन्तरमपि सस्यं न चलति । शिला हृदयहीनः अस्ति । वेगेन नदी वर्धते' इति ।
 
अष्टावक्रेण दत्तैः उत्तरैः प्रसन्नः राजा जनकः बन्दीवर्येण सह शास्त्रार्थचर्चायै अनुमतिम् अयच्छत् । अष्टावक्रः अवदत् - 'एकः एव [[सूर्यः]] जगति प्रकाशते । देवराजः [[इन्द्रः]] एकमेवाद्वितीयः वीरः । [[यमराजः]] अपि एकः एव' इति । अष्टावक्रः अवदत् - 'इद्रः [[अग्निः|अग्निदेवः]] च देवते स्तः । [[नारदः|नारद]]-पर्वतौ उभौ देवर्षी, [[अश्विनीकुमारौ]] उभौ स्तः । रथस्य उभौ चक्रौ, पतिपत्न्यौ सहचरौ भवतः' इति । बन्दी अवदत् - 'जीवनं त्रिधा जन्म धरति । कर्माणां प्रतिपादनं त्रिभिः वेदैः क्रियते । त्रिषु अपि कालेषु यज्ञकार्याणि चलन्ति । अपि च त्रयः लोकाः त्रीणि ज्योतींषि च सन्ति' इति । अष्टावक्रेण उक्तम् - 'चत्वारः [[आश्रमाः]] विद्यन्ते । [[वर्णाः]], दिशाः च चत्वारः । [[ओङ्कारः]], अकारः, उकारः, मकारश्च वाणी चतुर्विधः' इति । बन्दी अवदत् - 'यज्ञं पञ्च विधं भवति । यज्ञस्य अग्निः भवति पञ्च, ज्ञानेन्द्रियाणि पञ्च, पञ्च दिक्षु विद्यमानाः अप्सरसः पञ्च, पवित्राः नद्यः पञ्च' इति । अष्टावक्रः अवदत् - 'दक्षिणारूपेण षण्णां धेनूनां दानम् उत्तमं मन्यते । षडृतवः सन्ति । मनः संयोज्य षड इन्द्रियाणि सन्ति । कृत्तिका, साधस्कश्च षड् भवन्ति । बन्दी अवदत् - 'पाल्यपशवः सप्त सन्ति चेत् उत्तमम्, वन्यपशवः अपि सप्त स्युः । सप्तर्षयः सन्ति, [[वीणा]]यां सप्त तन्तवः भवन्ति' इति । अष्टावक्रः अवदत् - 'अष्ट [[वसवः]] भवन्ति, यज्ञस्य स्तम्भककोणानि अष्ट भवन्ति' इति । बन्दी अवदत् - '[[पितृयज्ञम्|पितृयज्ञे]] नव समिधाः भवन्ति, प्रकृतिः नवप्रकारकः भवति । [[बृहती]] छन्दसि नव अक्षराणि भवन्ति' इति । अष्टावक्रः अवदत् - 'दिशाः दश, तत्त्वज्ञाः दश भवन्ति, बालाः दशमे मासे जायन्ते' इति । बन्दी अवदत् - 'एकादश रुद्राः भवन्ति, यज्ञे एकादश स्तम्भाः भवन्ति, पशूनाम् एकादश इन्द्रियाणि भवन्ति' इति । अष्टावक्रः अवदत् - 'द्वादश [[आदित्याः]] भवन्ति । प्रकृतियज्ञः द्वादशदिनात्मकः भवति । जगती छन्दसि द्वादश अक्षराणि भवन्ति । वर्षे द्वादश मासाः भवन्ति' इति । बन्दी - 'त्रयोदशी उत्तमा भवति, पृथिव्यां त्रयोदश....' इति वदन् श्लोकस्य अग्रिमां पङ्क्तिं विस्मृतवान् । ततः अष्टावक्रः श्लोकं पूर्णीकृत्य अवदत् - '[[वेदः|वेदे]] त्रयोदशभिः अक्षरैः युक्तं [[छन्दः]] [[अतिछन्दः]] इति कथ्यते । अग्नि-वायु-सूर्यः च त्रयोदशदिनात्मके यज्ञे व्याप्ताः भवन्ति' इति ।
 
एवं प्रकारेण शास्त्रार्थचर्चायां बन्दी पराजितः जातः इत्यतः अष्टावक्रः अवदत् - 'राजन् ! अयं पराजितः इत्यतः एषः जले मज्जनीयः' इति । तदा बन्दी अवदत् - 'महाराज ! अहं वरुणस्य पुत्रः अस्मि । मत्तः पराजयं प्राप्तवतः सर्वान् अपि अहं मम पितुः समीपं प्रेषितवान् अस्मि । अधुना तान् सर्वान् अपि अहं भवतः पुरतः उपस्थापयिष्यामि' इति । अचिरात् पराजयं प्राप्य जले निमग्नाः सर्वे पण्डिताः उपस्थिताः जाताः यस्मिन् गणे अष्टावक्रस्य पिता कहोडः अपि आसीत् ।
पङ्क्तिः १५:
'''अष्टावक्रगीता''' अद्वैतवेदान्तस्य महत्त्वपूर्णः ग्रन्थः विद्यते ।
 
{{फलकम्: ऋषिमुनयः}}
 
""
 
{{फलकम्: ऋषिमुनयः}}
 
[[वर्गः:ऋषिमुनयः]]
"[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]] "
"https://sa.wikipedia.org/wiki/अष्टावक्रः" इत्यस्माद् प्रतिप्राप्तम्