"बसवेश्वरः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
भक्तः बसवेश्वरः(बसवण्णः)
[[कर्णाटक]]स्य सांस्कृतिक इतिहासे बसवण्णस्य महोन्नतस्थानम् अस्ति । तस्य जीवने धार्मिक्यः , सामजिक्यः वैचारिक्यः एवं साहित्यक्यः क्रान्तयः जाताः। ८०० वर्षाणां पूर्वतनाः बसवेश्वरस्य सन्देशाः अस्माकं जीवने समुचितमार्गदर्शनरूपेण सन्ति । कन्नडसाहित्यक्षेत्रे बसवण्णः युगपुरुषः इति वक्तुं शक्यते । साहित्यक्षेत्रे महत्वपूर्णा क्रान्तिः एव कृता बसवेश्वरेण । स्वस्य ज्ञानं तथा दैवज्ञानं सर्वे यथा अवगच्छेयुः तथा सरलया शैल्या विचारयुक्तैः रसयुक्तवचनैः बोधितवान् । ज्ञानसम्पत्तिः केवल एकस्य एव न भवति । तस्य जातिभेदः वा, लिङगभेदः वा नास्ति । सामान्यजनाः अपि ज्ञानं प्राप्तुं शक्नुवन्ति । सरलशैल्या वचनानि लिखितवान् बसवण्णः । यथा वचनं तथा कृतिः इतिवत् व्यक्तिस्वातन्त्र्यस्य धैर्यं अन्येन केनापि कविना न कृतम् । पूर्वतनकवयः आश्रयदातृणां श्लाघनार्थं वा, मृतानां स्मरणार्थं वा, काव्यानि रचयन्ति स्म । किन्तु बसवण्णः तथा तस्य समकालिनः वचनकाराः नित्यसत्ययुक्तस्य लोकस्य वक्रता द्र्ष्ट्या निखरैः वचनैः लिखितवन्तः । सामान्याः जनाः सन्मार्गे प्रवर्तयेयुः इति बसवण्णस्य आशयः आसीत् ।
बसवण्णः [[बिजापुरमण्डलम्|बिजापुरमण्डलस्य]] बागेवाडी ग्रामे मादरसस्य तथा मादलाम्बायाः पुत्रः । एतत् स्थानम् इदानीं [[बसवनबागेवाडी]] इत्येव प्रख्यातम् अस्ति । वीरशैवानां पवित्रं यात्रास्थलम् एतत् । [[बिज्जलः|बिज्जलस्य]] मन्त्रिरूपेण कल्याणक्रान्तेः कारणकर्ता भूत्वा युगपुरुषः इति प्रख्यातः जातः । अस्पृश्यतयाः निवारणं जातिभेदानां निर्मूलनं , शीलयुक्तजनानां वर्धनम् एतस्य लक्ष्यम् आसीत् ।
 
[[वर्गः:भक्तिमार्गानुयायिनः]]
"https://sa.wikipedia.org/wiki/बसवेश्वरः" इत्यस्माद् प्रतिप्राप्तम्