"भगवद्गीता" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
(लघु) clean up using AWB |
||
पङ्क्तिः १:
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
{{हिन्दुत्वम्}}
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । [[श्रीकृष्ण:]] अत्र उपदेशकः श्रोता [[अर्जुनः]] । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
==वैदिकवाङ्मये श्रीमदभगवद्गीतायाः स्थानम्==
पङ्क्तिः १०:
:''सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।''
:''पार्थो वत्सः सुधीर्भोक्ता गीतामृतदुहे नमः ॥''
वासुदेव-पार्थयोः संवादरूपायाः गीताया अवसाने अर्जुन उवाच ।
:''इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।''
पङ्क्तिः १००:
:'''तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
''ततः कर्मजन्यशुद्धयभावे बहिर्मुखः – इति यस्मातक्षणमपि कालं जातु कदाचित्कश्चिदप्यजितेन्द्रियोऽकर्मकृत्सन्न तिष्ठति, अपितु लौकिकवैदिक कर्मानुष्ठानव्यग्र एव तिष्ठति । तस्माद् शुद्धचित्तस्य संन्यासो न सम्भवतीत्यर्थः कस्मात् पुनरविद्वान्कर्माण्यकुर्वाणो न तिष्ठति । हि यस्मात् सर्वः प्राणी चित्तशुद्धिरहितोऽवशोऽस्वतन्त्रएव सन् प्रकृतितो जातैरभिव्यक्तै कार्याकारेण सत्त्वरजस्तमोभिःस्वभावप्रभवैर्वा रागद्वेषादिभिर्गुणैः कर्म लैकिकं वैदिकं वा कार्यते । अतः कर्माण्यकुर्वाणो न कश्चिदपि तिष्ठतीत्यर्थः । यतः स्वभाविका गुणाश्चालकाः अतः परवशतया सर्वदा कर्माणि कुर्वतोऽशुद्धबुद्धेः सर्वकर्मसंन्यासो न संभवतीति न संन्यासनिबन्धना ज्ञाननिष्ठा संभवतीत्यर्थः ॥ यथाकथंचिदौत्सुक्यमात्रेण कृतसंन्यासस्त्वशुद्धचित्तस्तत्फलभाङ् न भवति । यतः- यो हि विमूढात्मा रागद्वेषादि दूषितान्तः करण औत्सुक्यमात्रेण कर्मेन्द्रयाणि वाक्पाण्यादीनि संयम्य निगृह्य, बहिरिन्द्रियैः कर्माण्यकुर्वन्निति यावत् । मनसा रागादि प्रेरितेन्द्रियार्थाञ्छब्दादीन नत्वात्मतत्त्वं स्मरन्नास्ते कृतसंन्यासोऽहमित्याभिमानेन कर्मशून्यस्तिष्ठति स मिथ्याचारः सत्त्वशुद्धयभावेन फलायोग्यत्वात्पापाचार उच्चते
{{भगवद्गीता}}
मानवसमाजस्य श्रेयस्कामेन भगवता वासुदेवेन सनातन वैदिकधर्मद्वयमुपदिशता नानाप्रपञ्चपूर्णे जीवने सार्वजनीनाः समस्याः शास्त्रीयरीत्या समाहिताः । न केवलमर्जुनायापितु सर्वेभ्यः, नकेवलं युद्धविषयेऽपि तु सम्पूर्णजीवनस्य येऽपि कार्याकार्ये तदव्यवस्थार्थं शास्त्रमेव प्रमाणीकृतम् । सरलया भाषया, नादमधुरया, रसात्मिकया पदावल्या, सत्तर्कप्रतिष्ठितया, प्रतिपत्तिबन्ध्यादि दोष रहितया, छ्न्दोमय्या पदसंहत्या सहजौजस्विन्या शैल्या भ्रान्तिशून्यया रुचिपूर्णया भारत्या शिष्टसंस्कृत भाषया सुबोधिन्या सकलार्थबोधनसमर्थया स्वाभाविक्या छन्दोनिबद्धप्रणाल्या कठिनतरं विषयजातं गम्भीरदार्शनिकैविवादास्पदं सतप्रतिपाद्यविषयमपि सुबोधगम्यं सुलभं करोति विराजते चास्याः गीतायाः सर्वविध माहात्म्यं प्रासंगिकता चाद्यत्वेऽपि यथापूर्वम् ।
==प्राचीनाव्याख्यातारः, आधुनिकव्याख्यातारश्च==
भगवदगीता सर्वैरेव स्वकीयगुणविशेषैः सम्यकतया प्रतिष्ठिता वैदिकपरम्परायाः सम्प्रदायकृत्सु प्रमुखाचार्येषु भाष्यकारेषु टिकाकारेषु तत्तच्छास्त्रकारेषु च । सा हि वेदान्तप्रस्थानत्रयीनध्ये परिगणिता व्याख्यातृभीश्च व्याख्याता स्वस्वसम्प्रदायसिद्धान्तानुसारेण । तथापि न कृतोपसंहाराऽस्याअर्थगभीरा प्रभूतप्रभावा वाग्धारा । न केवलं भारतेऽपि तु विश्वस्मिन् जगतीतले भाषान्तरेष्वपि विद्वद्वर्यैव्याख्याताऽनूदिता प्रचारिता प्रसारिताऽधिताऽध्यापिता च । नाविदितं कस्यापि प्रबुद्धजनस्यैतस्याः सर्वोत्त्कृष्टं महत्त्वमुपयोगित्वं च । प्राचीनैराचार्यैराधुनिकैश्च विद्वदभिः समानभेव सम्मानिताऽभिनन्दिता परः शतैः प्राचीनैः साम्प्रदायिकैराचार्यैर्यथा स्वपक्षेनीता, व्याख्याता, सादरं परिशीलिता, तथैवं ततोऽप्यधिकतरमद्यतनी मानवता भगवद्गीतोपदेशसापेक्षेति प्रवृत्तिः प्रसृताऽवलोक्यते । अतः विदुषाम्-संख्येयत्वात्, अल्पज्ञत्वाच्चास्माभिरत्र केषाञ्चिदेवाचार्यप्रवराणां नामोल्लेखः संक्षिप्तश्च परिचयोऽत्र दिग्दर्शनत्वेन क्रियते ।
[[Image:Kurukshetra.jpg|right|250px|thumb|कुरुक्षेत्रस्य एकं तालपत्रम्
सर्वप्रथमं श्रीशंकरभगवत्पादाचार्यप्रणीतं भाष्यं ''ज्येष्ठं पुरोजन्मतया गुणैश्च'' इति प्रसिद्धम् । एतदभाष्यावलोकनेन विज्ञायते यत् भाष्यान्तरं वृत्त्यन्तरञ्चासीत् पुरा । शांकरभाष्यं तु आनन्दगिरिव्याख्यायुतम् । ततस्तु शांकरसम्प्रदायस्याद्वैतमतानुगामिभिः बहुभिराचार्यैः टीकोपटीकाः विरचिताः । तत्रैव मधुसूदनसरस्वतीयतिवरोऽपि प्रवेशनार्हतीति ।
पङ्क्तिः १११:
द्वैतवेदान्तनुसारिणी व्याख्या मध्वाचार्यैः आनन्दतीर्थापराभिधैरर्थगभीरा दुरवगम्या च । तस्या दुरुहार्थावद्योतिनि “ प्रमेयदीपिका” जयतिर्थविरचिता विराजते ।
वेङ्कटनाथकृता व्याख्या “
बल्लभसम्प्रदानुसारिव्याख्या तु
सम्पूर्णमहाभारतटीकाकर्तुः नीलकण्ठस्य भावदीपाख्यटीकाऽपि महदुपकारिणी । सापि अद्वैतमतानुसारिणीति ।
यामुनमुनिप्रणीतो गीतार्थसंग्रहः सर्वथा भागवतमतं निर्वहति ।
पङ्क्तिः ११९:
एतदतिरिक्ता अपि सामञ्जस्येन दर्शनशास्त्रीयविषयप्रतिपादनपराः व्याख्या उपलभ्यन्ते । तथाहि श्रीधरीयसुबोधिनी” प्रायोऽद्वैतमतं प्रतिपादयति। यत्र कुत्रापि शंकरमताद्भिद्यते च । अपरा टीका “ भाष्योत्कर्षदीपिका खलु सर्वतोभावेन शांकरभाष्यार्थमेवाविष्करोति, स्वतन्त्रव्याख्यां च प्रस्तौति निराकरोति च सामान्यतः नीलकण्ठीयव्याख्यां, श्रीधरीव्याख्यां अभिनवगुप्तव्याख्यां च, विशेषतस्तु मधुसूदनसरस्वतीस्वमिकृतां गूढार्थदीपिकां निरस्य “ भाष्यविरुद्धमेतदि” ति स्वस्वानादरं प्रकटयति । श्रीमदभिनवगुप्तपादाचार्याणामन्या लधुकायाऽपि निर्भिन्नार्थिका शैवमतोपस्थापिका चेति प्रतीयते ।
एतदुक्तं भवति समस्तटीकानां सम्यगेवेक्षणेनेति यत् सर्वा अपि यास्सन्तीति टिकात्वेन भाष्यत्वेन प्रसिद्धास्ता सर्वा अपि नैकैकशः स्वातन्त्रयेण सम्भूय वा भागवादाशयं गीतावचननिगूढं प्रकाशयितुं पर्याप्ता इति । यतो हि पराचीनानां नवीनानां व्याख्यानानामावश्यकता मनुभवन्त आचार्या आधुनिका विद्वांसोऽपि स्वमतोपन्यासे स्वतन्त्राः सन्तोऽपि गीतोक्तिमनुरुन्धन्तोऽपि स्वपक्षस्थापने प्राचुर्येण प्रमाणमुपनस्यान्तोऽपि वैदिक परम्परा पद्धतिं न
[[File:GitaUpadeshTirumala.jpg|left|00px|thumb|गीतोपदेशः]]
पङ्क्तिः १२५:
एतामनन्तरोदित दृष्टिमवलम्ब्यालोच्यमाने सर्वा अपि शास्त्रीयाः टीकाः प्रामाण्यं भजन्त एव, किन्तु न पूर्णतया सामस्त्येन् वा । दार्शनिकविषये भवतु नाम भेदो मतमतान्तरं विलसतु नाम, तथापिधर्मसम्मतजीवनं यापयितुं, पुरुषार्थसिद्धयं दर्शनानामुपयोगं कर्तुम, आत्मोन्नतये परमपुरुषार्थावाप्तये, विश्वासं द्रढयितुं, परमार्थसत्तायामसंभावनाविपरीतभावनामपाकर्तुं भगवदाराधनामात्मोपासनां सफलां कर्तुं दार्शनिकमतभेदाः कथमपि साहाय्यं नाचरन्ति । कर्मनिष्ठा-ज्ञाननिष्ठा-भक्तिनिष्ठाः गीतोक्तदिशैव तत्र साधनत्वेनसमर्थाः भवन्ति । एवं विधो भगवतो वासुदेवस्य विष्कृष्टोऽभिप्रायो भवितुमर्हति ।
आधुनिकास्तु केचित् कर्मनिष्ठाप्रधानां व्याख्यां कुर्वन्ति, केचित्तु ज्ञाननिष्ठाप्रधानां, केचिच्च पुनः भक्तिनिष्ठाप्रधानामेव । तिलककृत
पूर्वापरसकलटीकासु प्रयुक्तां पद्धतिं तदनुरोधेनार्थाविष्करणाय स्वस्वम्प्रदायविशेषानुरोधेन च सिद्धान्तजातं पर्यालोच्यास्माकं मतेनेदं वक्तुं पार्यते यत् यतिवरो मधुसूदनसरस्वतीमहाभागो प्रशास्यतरो व्याख्याता । यतो हि भगावदगीतायाः या समन्वयात्मिकादृष्टिः स तामेवावलम्बते संगृहणाति च सर्वान् स्वोत्प्रेक्षाबलेन व्याख्याति स्वातन्त्रयेण । अतोऽधिकांशतः श्रद्धेयो व्याख्यातेति निष्पक्षपाततो वक्तुमुचितम् ।
यः [[उपनिषदां]] [[आत्मविचारः]] [[साङ्ख्यानां]] [[ज्ञनविचारः]] तथा [[सृष्टिक्रमः]], [[उपासनाविवरणम्]] भगवद्विचाराः एतत् सर्वमपि बोधयति स एव भगवद्गीता । येभ्यः [[वेदाध्ययनाधिकारः]] नास्ति तेभ्यः अपि [[वेदान्तस्य]] तथा धर्मस्य सारं पाठयति एषा भगवद्गीता । व्यासरचितं [[महाभारतमेव]] गीतायाः स्रोतः । भगवद्गीतयाः [[प्रस्थानत्रये]] द्वितीयं स्थानं दत्तं वर्तते । परमज्ञानं , परिशुद्धभक्तिः , निष्कामकर्मणः एतेषां त्रयाणामपि मोक्षसाधकत्वं वर्तते इति भगवद्गीता अभिपैति । गीतायाः उपरि अचार्यत्रयाणां भाष्यं वर्तते । आधुनिकाः अपि [[बालगङ्गाधरतिलकः]] , [[मदनमोहनमालवीयः]] ,[[महात्मा गान्धिः]] , [[अरविन्द घोष]] इत्यादयः गीतायाः माहात्म्यं मुक्तकण्ठेन श्लाघितवन्तः । गीतायाः उपरि एतेषां व्याख्यानं अपि उपलभ्यते । एतस्याः काव्यशैली , आध्यात्मिकाकर्षणात् जगति सर्वेपि प्रभाविताः अभूवन् इति कारणादेव सर्वासु भाषासु अद्य अनूदिता वर्तते । [[त्रयाः आचार्याः]] तेषां सिद्धान्तानुसारं गीतायाः [[भाष्यं]] रचितवन्तः।
श्रीमद्भगवद्गीतायां भगवता श्रीकृष्णेन अर्जुनाय ये उपदेशाः प्रदत्ताः, तेषां दिशा सुस्पष्टाऽस्ति । तत्र आचारमीमांसा विशेषेण प्रतिपादिता लक्ष्यते । श्रीमद्भगवद्गीता योगशास्त्रमप्यस्ति । अत्र योगशब्दः आचारव्यवहारयोरर्थे प्रयुक्तोऽस्ति । प्रत्येकम् अध्यायस्य पुष्पिकायां “ ब्रह्मविद्यायां योगशास्त्रे” इत्युल्लेखेन विज्ञायते यद्गीतायाः मुख्यं प्रतिपाद्यं ब्रह्मविद्यायां प्रतिष्ठितस्य व्यवहारस्य प्रतिपादनमस्ति ।
पङ्क्तिः २१९:
==भगवद्गीता भागवतं च।==
गीताविस्तारो भागवतम्’इति उक्ति: प्रसिद्धा।अनया दृष्ट्या उभौ ग्रन्थौ यदा अवलोकितौ, तदा कतिचन साम्यस्थलानि दृष्टानि।तानि दृष्ट्वा उपरितना उक्ति: यथार्था अस्ति इति निश्चय: भवति।एतानि तानि साम्यस्थलानि-
1)मृत्यो: अपरिहार्यत्वम्। भीष्मादिकानां मृत्युविषये शोक: न उचित:’ इति कृष्ण: गीतायां प्रतिपादयति। तदर्थं स: कारणं वदति - जातस्य हि ध्रुवो मृत्यु:।भ.गी. 2.27
पङ्क्तिः २३१:
विदितोऽसि भवान्साक्षात्पुरुष: प्रकृते: पर:। भाग10.1.23
3 दिव्यं जन्म
एतद् दिव्यं जन्म कथं भवति इति वर्णनं भागवते प्राप्यते - देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:। आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कल:।तद्द्भुतं बालकमम्बुजेक्षणम् . . .। भाग 10.3. 8,9,10
पङ्क्तिः २४३:
5 भक्ति-प्राधान्यम्
गीतायां विश्वरूपदर्शनानन्तरं भगवान् वदति -
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।शक्य
अत्र सर्वेषु साधनेषु भक्ते: प्राधान्यम् उक्तम्। किं बहुना वेदादिकानि अन्यानि साधनानि मम प्राप्त्यर्थम् असमर्थानि, भक्ति: एका समर्था इति भगवत: आशय:।तथापि एतस्माद् वचनात् पूर्वं साधनानां तारतम्यविषये अर्जुनस्य प्रश्न: नास्ति।
पङ्क्तिः २५६:
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिका:।तद्गुणानेव च गायन्त्यो नात्मागाराणि सस्मरु:।भाग 10.30.44
स्वगृहं विस्मृतवत्य: गोप्य: पुन: यमुनापुलिनम् आगता:!मन्मना भव तथा मामेवैष्यसि इति एतयो: फल-साधनसम्बन्ध: व्यासेन गोपीवृत्तेन साक्षात् दर्शित:।गीतोक्तसिद्धान्तस्य एतावद् मनोहरम् उदाहरणम् अन्यत्र न स्यात् !
7 भक्तरक्षणव्रतम्
पङ्क्तिः २७३:
एतेषां नवानां द्वाराणां दिग्विभाग: अपि तत्र एव दत्त:- अक्षिणी नासिके आस्यमिति पञ्च पुर: कृता:।दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत:।पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते। भाग4. 29. 9
==सम्बद्धसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*
[[वर्गः:महाभारतम्]]
|