"गङ्गानदी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १७:
'''गङ्गा नदी''' दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी|
== उद्भवनम् ==
[[भागीरथी]] [[उत्तराञ्चलः|उत्तराञ्चले]] हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति [[अलकनन्दा|अलकनन्दाम्]] संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे [[यमुना]] गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।
 
== जन्तवः ==
पङ्क्तिः ३५:
==गङ्गायाः प्रकृतस्थितिः==
भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं [[वायुः]] [[अग्निः]] इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति ।
विष्णोः पादकमलात् उद्भूता गङ्गा शिवस्य शिखाद्वारा भूलोके पतित्वा प्रवहति इति भारतीयानां विश्वासः । अतः गङ्गास्नानेन पापनाशनं भवति इति भावनया प्रतिदिनं २०लक्षजनाः पुण्यस्नानं कुर्वन्ति । जनानां धार्मिकाध्यात्मिकेन विश्वासेन इयं अस्मिन् विश्वे एव पुण्यतमा इति ख्याता । एतादृशी नदी मानवानां दुराशायाः निर्लक्षस्य च कारणेन तन्नाम नगरीकरणेन नदीतीरे अत्यधिकयन्त्रागाराणां स्थापनेन च गङ्गायाः जलं मलिनं सञ्जातम् । एतस्य जलस्य पानेन स्नानेन वा मानवाः रोगबाधिताः भवन्ति एव । अस्मिन् जले कालरा डिसेण्ट्री इत्यादिरोगोत्पादकाः अंशाः सन्तीति भारतीयविज्ञानिनः धार्मिकनायकाः च मिलित्वा संशोध्य जनान् प्रबोधितवन्तः । पुनः च अस्मिन् जले अन्यनदीनाम् अपेक्षया अधिकः आम्लजनकः अस्ति यः मानवशरीरास्य अनुकूलकरः न । अनेन जलपानेन मानवः ज्वरबाधितः भवति इति । अतः मानवः गङ्गाजलं पुण्यभावनया आबहोः कालत् तीर्थम् इव किञ्चिदेव पिबन् जीवति ।
भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति । किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनि नद्यां न प्रक्षिपेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् ।
तुङ्गतरङ्गे गङ्गे । वन्दे गङ्गामातरम् ।
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्