"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १०:
 
एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
:[[धार्मिकपर्वाणि|'''[[धार्मिकपर्वाणि]]''']]
:[[राष्ट्रियपर्वाणि|'''[[राष्ट्रियपर्वाणि]]''']]
:[[जयन्त्युत्सवाः|'''[[जयन्त्युत्सवाः]]''']]
:[[प्रादेशिकपर्वाणि|'''[[प्रादेशिकपर्वाणि]]''']] इति ।
:अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – [[गान्धिजयन्ती]], नेहरूजयन्ती ([[बालदिनम्]]) इत्यादयः जयन्त्युत्सवाः, [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनाचरणं]], [[गणतन्त्रोत्सवः|गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि च ।
 
हिन्दुधर्मः प्रत्येकमपि जनं कर्मत्रयं बोधयति । '''नित्यकर्म, नैमित्तिककर्म, काम्यकर्म''' चेति । नित्यकर्म नाम प्रतिदिनं करणीयं कर्म – उदाहरणार्थं पूजा, प्रार्थना, ध्यानं, सन्ध्यावन्दनम् इत्यादीनि । नैमित्तिककर्म नाम निमित्ते सति करणीयं कर्म – उदाहरणार्थं पर्व, जयन्त्युत्सवादयः च । काम्यकर्म नाम मनसः इच्छापूर्त्यर्थं करणीयं कर्म – उदाहरणार्थं व्रतं, यज्ञयागादिकं च । प्रत्येकम् अपि जनं निरन्तरं सुसंस्कृतं कर्तुं ये वैज्ञानिकाः विचाराः मनःशास्त्रस्य अनुगुणं सन्ति तेषाम् एव आधारेण एते कर्मविचाराः विधिनियमाः अपि रचिताः सन्ति । '''कारणं विना मधुरं न भुञ्जीत''' इत्येतं धर्मसूक्ष्मविषयं [[वाल्मीकिः|वाल्मीकि]]मुनिः [[रामायणम्|रामायणस्य]] [[अयोध्याकाण्डम्|अयोध्याकाण्डे]] उल्लिखति । [[महाभारतम्|महाभारतस्य]] [[विधुरनीतिः]] अपि एतत् एव वदति । यथा –
 
[[चित्रम्:Avatars.jpg|thumb|150px|right|''भगवतः महाविष्णोः दशावताराः''']]
पङ्क्तिः २५:
विभज्य खादनस्य, अन्येभ्यः दानस्य वा पाठः पर्वणाम् आचरणद्वारा बाल्यादेव बालाः पाठयितुं शक्याः । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन '''वयं सर्वे भारतीयाः''' इति ऐक्यं वर्धते । प्रादेशिकादिपर्वणाम् आचरणेन परस्परं स्नेहः वर्धते । धार्मिकपर्वाणि सर्वाणि अपि धर्मबुद्धिं जागरयन्ति । तत्तत्पर्वावसरे निर्दिष्टः कश्चन आहरक्रमः वर्तते । तेन ऋतुकालादिक्रमेण सेव्यमानेन [[आहारः|आहारेण]] दैहिकम् आरोग्यं वर्धते । पर्वावसरे परस्परं बान्धवानां मेलनेन, संलापेन, भजनादिना धार्मिकाचरणेन वा शान्तिः मानसिकारोग्यं च वर्धते ।
 
अद्य गृहेषु अस्माकं सम्प्रदायान्, सांस्कृतिकानि मौल्यानि, धर्मसूक्ष्माणि च बोधयितारः वृद्धाः न सन्ति । विद्यमानाः गृहिणिगृहस्थाः आर्थिकसम्पादने निरताः । बालाः दूरदर्शन-सङ्गणकादिषु सम्पर्कमाध्यमेषु लीनाः । एवं सति पर्वादीनां पृष्ठभूमिका वा महत्त्वं वा कथं ज्ञायेत बालैः ? अतः अद्यतनजगति पर्वाचरणं स्वादुभक्ष्याणां भोजनेन नूतनवस्त्राणां धरणेन च समाप्यते एव । भक्ष्यवस्त्रादीनि धनं दत्तं चेत् सर्वदा प्राप्यन्ते एव । तर्हि पर्वणः वैशिष्ट्यं किम् ? इति पृष्ठे सति एवम् उत्तरं भवेत् - कृतज्ञतासमर्पणम्, ऋतुकालानुगुणम् आहारक्रमः, बान्धव्यवर्धनं, धार्मिकाचरणं, स्वच्छतारक्षणं चेति बहूनि वैशिष्ट्यानि सन्ति पर्वाचरणस्य । यतः अद्यतनजगति सर्वेपि अत्यन्तं कार्यव्यग्राः भवन्ति । “समयाभावः”"समयाभावः” इत्येषः शब्दः सदा सर्वेषां मुखात् निस्सरति । अतः पर्वव्याजेन परस्परं बान्धवानां मेलनं भवेत्, गृहस्य तथा पूजावस्तूनां स्वच्छता भवेत्, वर्षे कतिपयवारं वा धार्मिकविधीनाम् आचरणं भवेत्, अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् च । अनेन क्रमेण विस्म्रियमाणा अस्माकं [[भारतीयसंस्कृतिः]] पुनः स्मर्येत ।
 
पाश्चात्त्यसंस्कृतेः प्रभावयुतस्य जीवनस्य कारणात् वयम् अस्माकम् आचरणेषु बहूनाम् आचरणानां विशिष्टानि पदानि वा तेषां पदानाम् अर्थं वा न जानीमः एव । यथा –
पङ्क्तिः ५०:
:१७.''' उपवासः''' – समीपे वासः (देवस्य समीपे इत्यर्थः) ।
 
पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, [[स्तोत्राणि]] वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – '''युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तचतुर्दशी, श्रावणपूर्णिमा, महालय-अमवास्या''' च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।
 
[[चित्रम्:Ravi Varma-Rama-breaking-bow.jpg|thumb|150px|right|'''शिवधनुः भञ्जयन् श्रीरामः''' (राज्ञः रविवर्मणः चित्रम्)]]
पङ्क्तिः ६५:
:१०. [[वटसावित्रीव्रतम्]] – ज्येष्ठपूर्णिमा ।
:११. [[प्रथमैकादशी]] – आषाढशुक्लैकादशी ।
:१२. [[व्यासपूर्णिमा|गुरुपूर्णिमा | ]] – आषाढपूर्णिमा ।
:१३. [[ज्योतिर्भीमेश्वरपूजा|ज्योतिर्भीमेष्वरपूजा]] – आषाढ-अमावास्या ।
:१४. [[नागपञ्चमी]] – श्रावणशुक्लपञ्चमी ।
पङ्क्तिः ७१:
:१६. [[कृष्णजन्माष्टमी|गोकुलाष्टमी]] – श्रावणबहुलाष्टमी ।
:१७. [[गौरीतूतीया|गौरीतृतीया]] – भाद्रपदशुक्लतृतीया ।
:१८. [[गणेशचतुर्थी|गणेशचतुर्थी]] – भाद्रपदशुक्लचतुर्थी ।
:१९. [[महालय-अमवास्या]] (सर्वपितृ–अमवास्या) – भाद्रपद-अमावास्या ।
:२०. [[नवरात्रम्]] – आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) ।
पङ्क्तिः ९६:
:३५. [[होलीपर्व]] – फाल्गुणपूर्णिमा ।
:३६. [[चातुर्मास्यव्रतम्]] - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
:३७. [[वरमहालक्ष्मीव्रतम्|वरमहालक्ष्मीव्रतम्]] - श्रावणपूर्णिमायाः समीपे विद्यमानः शुक्रवासरः ।
 
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । '''अञ्जलौ प्रासाददर्शनम् इव''' एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्