"ब्राह्मणः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः २:
[[File:Danidhar28.JPG|left|300px|thumb|'''यज्ञवेदी''']]
{{हिन्दूधर्मः}}
ब्राह्मिन् (Brahmin) इति पदस्य संस्कृतभाषायाः ब्राह्मणः इति पदस्य च मूलम् ’ब्रह्मन्’'ब्रह्मन्’ इति। पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरेपितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तयः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् । [[File:Brahmin boy ritual.jpg|thumb|'''अग्निकार्ये ब्राह्मणबालः''']]
वेदकालात् राजानः ब्राह्मणैः सह निकटं सम्बन्धम् अस्थापयन् । नृपाः एतेषां मार्गदर्शनानुगुणं प्रशासनं कुर्वन्ति स्म । भारतदेशे ब्राह्मणाः प्रबलाः प्रभावशालिनः च आसन् । केचन एव नीचजातीयेषु पक्षपातं प्रदर्शयन्ति स्म । किन्तु आधुनिके भारते ब्राह्मणाः तद्विरुद्धे तारतम्ये पतिताः इति वदन्ति । ब्राह्मणानां परम्परायाः मूलं मध्यैष्यायाः पुरातनजनजीवनपर्यन्तम् अन्विष्टं दृश्यते ।
इतिहासः – भारते ब्राह्मणवर्गस्य इतिहासः तु हिन्दुत्वस्य आरम्भस्तरस्य वैदिकधर्मकालतः आरब्धः इति वक्तुं शक्यते । इदानीन्तने काले हैन्दवः सनातनधर्मः इत्येव कथयन्ति । वेदाः एव ब्राह्मणानाम् आचारस्य मूलस्रोतः अस्ति । प्रायः सर्वे ब्राह्मणसम्प्रदायाः वेदैः एव प्रेरिताः सन्ति । हैन्दवसम्प्रदायानुगुणं वेदः अपौरुषेयः (पुरुषकृतः न) अनादिः (आरम्भः एव नास्ति) च । किन्तु एते वेदाः सार्वत्रिकसार्वकालिकं सत्यं प्रदर्शयन्ति । वेदान् श्रुतिः (श्रवणीयः) इति परिगणनं तु ब्राह्मणानां बहूपयोगाय भवति । श्रुतौ चत्वारः वेदाः (ऋक्,सामः, यजुः, अथर्वः) तत्सम्बद्धेषु ब्राह्मणेषु संहितासु, आरण्यकेषु उपनिषत्सु च अन्तर्गच्छन्ति । ब्रह्मन् ब्राह्मिन् (उभावपि पुल्लिङ्गशब्दौ) समानशब्दौ न । ब्रह्मन् शाब्दः पुँल्लिङ्गे स्वीकृतः चेत् ब्राह्मणः इत्येव अर्थं जनयति । ब्रह्मन् नपुंसकलिङ्गम् इति परिगणितं चेत् परमात्मा इति अर्थं ददाति । किन्तु ब्राह्मिन्/ब्राह्मणः इति पदं कञ्चित व्यक्तिं सूचयति ।
पङ्क्तिः ३९:
[[उत्तरप्रदेशः]] – उत्तरप्रदेशराज्ये पश्चिमतः पूर्वं सनध्याः, गौडाः, त्यागिनः, मध्यभागे कान्यकुब्जाः, ईशान्याग्नेयभागयोः सरयूपरिणाः, वाराणस्याः आग्रायाः प्रदेशेषु मैथिलयः, पश्चिमे सूर्यध्वजाः, वायव्यभागे जुझोतियाः ब्राह्मणाः सन्ति । (आकरः – इतिहासः किंवदन्त्योः मध्ये, लेखकः रवीन्द्र के.जैनः)
[[बङ्गालः]] – बङ्गालरज्यस्य पश्चिमभागे ब्राह्मणाः बरेन्द्राः रार्ही इति द्विधा विभक्ताः । उत्तरबङ्गालस्य बरेन्द्रभूमिः इति नाम । तस्य मूलनिवासिनः बरेन्द्राः ब्राह्मणाः । दक्षिणबङ्गालस्य रार्हदेशः इति नाम आसीत् । तस्य मूलनिवासिनः रार्ही ब्राह्मणाः । बरेन्द्रब्राह्मणाः अर्चकाः नासन् किन्तु ते वैद्यशास्त्रम् अधीत्य शस्त्रक्रियाः कुर्वन्ति स्म । बरेन्द्राः ब्राह्मणाः रार्हीब्राह्मणान् नीचाः इति पश्यन्ति स्म ।
बङ्गालीब्राह्मणानां साम्प्रदायिकविचारान् १७तमशतके लिखिते कुलदीपिका इति ग्रन्थे पश्यामः । यज्ञयागदीन् कर्तुम् अत्र वैदिकाः न आसन् । क्रि.श. १०७७तमे काले यज्ञं कर्तुकामः आदिशूरः इति राजा कान्यकुब्जतः पञ्चब्राह्मणान् आनीतवान् इति ग्रन्थे उल्लिखितम् । किन्तु आदिशूरः बल्लाळासेनस्य मातुः पूर्वजः आसीत्। सः बङ्गालं मिथिलां च शास्ति स्म । मिथिलायां तु वेदकालात् एव ब्राह्मणानां बाहुल्यम् अस्ति एव । श्यामलवर्मा इति राजा कान्यकुब्जात पञ्चविप्रान् आनीतवान् इत्यपि अपरं संशोधनं वदति । ओरिस्सातः आगताः उत्कलब्राह्मणाः अपि अत्र वसन्ति । पश्चिमभारतात् उत्तरभारतात् च आगताः अन्यब्राह्माणाः अपि बङ्गालप्रान्ते वसन्ति । महाभारतस्य युद्धस्य अनन्तरं जनमेजयः सर्पयागं बङ्गालस्य गौर् ब्राह्मणद्वारा एव कारितवान् इति वदन्ति ।
[[आन्ध्रप्रदेशः]] - अस्मिन् राज्ये ब्राह्मणाः वैदिकाः नियोगिनः चेति द्विधा विभक्ताः । वैदिकाः इत्युक्ते वेदविदः पूजादिधार्मिकविधिम् आचरन्ति । नियोगिनः नाम सांसारिकां नित्यविधिम् आचरन्ति ।
[[तमिळ्नाडु]] - अस्मिन् राज्ये ऐय्यङ्गार् ऐय्यर् चेति ब्राह्मणेषु वर्गद्वयम् अस्ति । अय्यङ्गार्याः वैष्णवब्राह्मणाः सन्ति । तेषु वडकळै तेङ्कळै इति पुनः वर्गद्वयम् अस्ति । एते रामानुजाचार्यस्य अनुयायिनः सन्ति । ऐय्यर् ब्राह्मणेषु स्मार्ताः शैवाः च सन्ति । एतेषु वडमः, वतिमः, बृहच्चरणम्, अष्टसहस्रं, शोलियार्, गुरुक्कल् इति ब्राह्मणानाम् उपभेदाः भवन्ति । सामान्यतः एते सर्वे ब्राह्मणाः शाङ्करतत्त्वस्य अनुयायिनः भवन्ति ।
पङ्क्तिः ६५:
[[वैष्णवमतम्]] – श्रीवैष्णवसम्प्रदायः माध्वसम्प्रदायः च विष्णूपासनायाः मुखद्वयम् एव । एतस्य प्रभावेन रमानन्द्रसम्प्रदायः, रामदासीसम्प्रदायः चेति वैष्णसम्प्रदायः पुनः दिधा विभक्तः । श्रीवैष्णवसम्प्रदायस्य प्रवर्तकः श्री रामानुजाचार्यः, माध्वसम्प्रदायस्य प्रवर्तकः श्री मध्वाचार्यः । श्री वल्लभाचार्येण प्रवर्तितः पुष्टिमार्गसम्प्रदायः अपि अनेन प्रभावितः एव ।
वैष्णवपथे एव सुप्रसिद्धः श्रीचैतन्यमहाप्रभुना स्थापितः बङ्गालस्य गौडीयवैष्णवसम्प्रदायः । अन्ताराष्टियकृष्णप्रज्ञासङ्घसम्प्रदायः अपि गौडीयवैष्णपथस्य प्रभावेन एव समुत्पन्नः ।
स्वामिनारायणसाम्प्रदायः अपि वैष्णवपथेन प्रभावितः एव । १८तमे शतके उत्तरप्रदेशस्य ब्राह्मणः घनश्याम् पाण्डे इति पूर्वाश्रमनामान्वितः भगवान् स्वामिनारायणः तस्य नाम्ना नूततं सम्प्रदायम् अरब्धवान् । गुजरात् राज्ये अस्य लक्षोपलक्ष सदस्याः सन्ति ।
श्रीकृष्णं विठ्ठल इति पूजयन् वार्करि इति सम्प्रदायः अपि अत्र अस्ति । वार्करि इति पदस्यार्थः प्रवासी इति । अस्य सम्प्रदायस्य जनाः स्वपत्तनात् ग्रामात् च पादभ्यां चलन्तः पण्ढरपुरं गत्वा विठ्ठलस्य दर्शनं कुर्वन्ति । अतः तीर्थयात्रां कुर्वाणं वार्करि इति कथयन्ति ।
द्वादशे शतके चक्रधरस्वामी इति ख्यातेन राज्ञा चक्रधरेण महानुभवः इति सम्प्रदायः आरब्धः । एते सम्प्रदायस्थाः श्रीकृष्णं, श्री दत्तात्रेयं, श्रीचक्रपाणिं, श्रीगोविन्दप्रभुं, श्रीचक्रधरम् इति च महाविष्णोः विविधरुपणि पूजयन्ति ।
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्