"ऋणम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
 
'''ऋणम्''' - अर्यते-ऋ (गतौ) 'क्तः' (३-२-१०२) । नत्वम् (८-२-६०) । निपा. ।
 
Line १६ ⟶ १८:
जगति सर्वः अपि व्यवहारः ऋणमयाः । यस्मात् या गतिः प्रकाशिता भवति पुनः तस्मिन् एव तस्याः गतेः विलयनमेव 'ऋणम्' इति उच्यते । तदा एव तस्य विमुक्तिः । अस्याः पृष्ठभूमिकायामेव धर्मस्य स्वरूपं निर्णीतं भवति । यावत् ऋणबन्धः स्यात् तावत् धर्मस्वरूपम् अव्यक्तं भवति । ऋणस्य गतौ व्यत्ययः यदि स्यात् तर्हि धर्मस्वरूपमेव नष्टं भवेत् । अतः तस्य आदान-प्रदाने विवेकपूर्णः व्यवहारः अपेक्षितः । अन्यथा ऋणस्य सम्पर्कः सूक्ष्मरीत्या भवति एव । तावत् अधमर्णत्वम् अनुवर्तते, धर्मस्य पुरोगतिः न भविष्यति ।
 
मानवजन्म ऋणत्रयेण युक्तमस्ति । एतेषां प्रत्यर्पणं विना जीवने औन्नत्यं प्राप्तुं न शक्यते । तद्विना धार्मिकप्रज्ञा न प्राप्यते । तदा जगत् भवति अन्धकारमयम् । अतः स्मृतिकाराः 'ऋणादान'प्रकरणे ऋणानां वैविध्यम्, व्याप्तिञ्च विवृण्वन्ति । एतदाधारेण धर्मस्य गतिं निर्णयस्य गतिं च स्पष्टीकुर्वन्ति स्मृतिकाराः। ऋणं प्रत्युपकारसापेक्षं भवति । तदा एव तस्य वासुस्थितिः प्रकाशिता भवति । अस्यां स्थितौ [[धर्मः]] सापेक्ष-निरपेक्ष-उपाधिरहितः सन् स्वस्थितौ रमते ।
 
ऋणस्य स्वरूपं गतिः च क्षेत्रभेदात् भिन्नाः भवन्ति । स्थूल-सूक्ष्मस्तरेषु अस्माकं जीवने युक्ताः भवन्ति । स्वस्वरूपे प्रतिष्ठितः सन् अनन्त-निरुपाधिकस्थितौ जीवनस्य आनन्दम् अनुभोक्तुम् ऋणं बन्धकं भवति । अतः मानवः जीवने क्रियमाणेषु लोकव्यवहारेषु जागरूकतया विवेकेन गतिशीलः स्यात् । तदा ऋणानि परमानन्दानुभवस्य पोषकाः भवन्ति ।
 
धर्मस्य गतिः गहना । तदीयं तत्त्वं तपोभूमिकायां निगूहितं भवति । अतः तस्य अवगमनमपि तपोभूमिकायामेव शक्यं न तु बाह्यव्यवहारभूमिकायाम् । इदं सम्यक् जानद्भिः ऋषिभिः दिव्यव्यवस्था परिकल्पिता अस्ति । अस्य प्रभावः भवति दिव्यः । स्थूलबुद्ध्या गोचरितं न भवेत् । अनया दृष्ट्या एव स्थूलव्यवहारः व्यवस्थितः अस्ति । अतः ऋणस्य व्याप्तिः प्रभावश्च दिव्यः भवति । दिव्यभूमिकायां सृष्टायाः ऋणस्य गतेः अनुसृत्य भौतिकक्षेत्रे व्यवस्थितसोपानानि भवन्ति ।
"https://sa.wikipedia.org/wiki/ऋणम्" इत्यस्माद् प्रतिप्राप्तम्