"पादकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
 
पङ्क्तिः २३:
 
==ऐतिहासिकी पृष्ठभूमिः==
क्रिस्तोः पूर्वं द्विशतं वर्षेभ्यः [[चीनादेशः|चीनदेशे]] द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञः जन्मदिने राजप्रासादस्याग्रे द्वौ विरुद्धदलयोः मध्ये जनानां रञ्जनाय क्रीडन्ति स्म । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषकत्वेन दीयन्ते स्म । तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडायाः स्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं ‘सुचु’'सुचु’(TSUCHUE) अथवा ‘किक्'किक्-बाल’बाल' (KICK BALL) इत्यासीत् ।
 
इतिहासाधारेणेयं क्रीडा ईसातः ५०० वर्षपूर्वं यूनानदेशस्य ‘स्पार्टा’'स्पार्टा’ नाम्नि स्थाने सर्वप्रथममभवत् । तत्र हस्तयोः प्रयोगोऽपि प्राचलत् । तदाऽस्य नाम हारपेस्टन (HARPASTON) इत्यभूत् । ततः परमिटलीदेशे क्रीडेयं प्रावर्तत ।
 
तत्रास्याख्या ‘फोलिस्’'फोलिस्’ (FOLLIS) इत्यवर्तत । दद्देशीयैः केचन नियमा अपि निर्धारिता अथ च यूनानैः सह प्रतिस्पर्धितमपि । ईसातो २८ वर्षपूर्वं रोम सम्राजा स्वसेनायामस्याः क्रीडायाः खेलनं निषिद्धं यतो हि स स्वसैनिकान् युद्धाय सज्जयितुमैच्छत् । इंग्लैण्डस्य रोमदेशेऽधिकारानन्तरं तत्रापि क्रीडनमिदमारभत । पञ्चम्यां शत्यां जापानदेशे ‘किमारी’'किमारी’ (KIMARI) नाम्ना क्रीडेयमक्रीडयत । नवमशतकात् सप्तदशशतकं यावद् नानाविधाभिः प्रक्रियाभिर्वर्धमानं क्रीडनमिदं प्रचरद् १८०१ वत्सरे ‘किकिंग'किकिंग-गेम’गेम' नाम्ना नियमानुसारं हस्तप्रयोगवर्जं दलद्वययुतमिङ्ग्लैण्डस्य ग्रामेषु प्रवृत्तम् । ततः परमद्य यावत् समग्रे संसारे ‘पाद'पाद-कन्दुक-क्रीडायाः समानः प्रचारो व्यवहारश्च समजायत तथा नियमाः स्थिरत्वेन निरधार्यन्ते ।
 
==क्रीडाङ्गणं क्रीडोपकरणं च==
===(१) क्रीडाङ्गणास्यायाम-विस्तार-रेखा-विधानानि===
:::(क) क्रीडाङ्गणम् -सन् १८८३ वत्सरे पादकन्दुक-क्रीडाया नियमान निश्चिन्वद्भः क्रीडाङ्गणस्यायामः १२०गजमितो विस्तारश्च ८० गजमितः स्वीकृतः । सम्प्रति १०० गजतः १३० गजमानं यावदायतं तथा ५० तः १०० गजमितं विस्तृतं क्रीडाङ्गणं समुचितं मन्वते । इदमायताकृतिकं भवति ।
:::(ख) रेखाः -अत्र -रेखाः ३" विस्तृता विधीयन्ते चतुर्षु कोणेषु च ४ फुट्-मानेनोन्नताः पताकिका आरोप्यन्ते । आयता रेखाः स्पर्श-रेखाः (टच-लाइन) विस्तृता रेखाश्च सीम-प्रवेश-रेखाः (गोललाइन) कथ्यन्ते । क्षेत्रस्य मध्ये एका रेखा दीयते सा च द्वयोः समानयोर्भागयोर्विभज्यते । इयं रेखा प्रर्धमार्गरेखा (हाफ वे लाइन) अथवा मध्यरेखा (सेण्टर् लाइन) निगद्यते । मध्यरेखाया मध्ये एवं २० गजमित्व्यासशालि वृत्तं भवति । सीम-प्रवेशरेखायाः सर्वथा मध्ये ८ गजान्तराले द्वौ स्तम्भौ निखन्येते यौ भूमेः ८ फुटमितावुन्नतौ भवतः, तयोरुपर्येका यष्टिर्दीयते । गोल-सीम्नः पृष्ठे जालिकां बधनन्ति यतः कन्दुको दूरे न गच्छेत् । ‘गोलपोस्ट’'गोलपोस्ट' नाम्ना ख्यातयोर्द्वयोरपि स्तम्भयोः ६ गजदूरे काश्चन रेखा आकृष्यन्ते ताः सीम-प्रवेश-स्थल (गोल्-एरिया) नाम्ना व्यपदिशन्ति । स्तम्भयोरुभयतः सीमरेखयोः १८ गज मिते दूरप्रदेशे द्वे रेखे विधाय ते योज्येते । तदनन्तरं स्तम्भयोर्मध्ये १२ गजमितेऽन्तराले चिह्नमेकं कृत्वा १० गजमितार्धव्यासेनैकमर्धवृत्तं विधीयते यत् सीम- प्रवेशरेखातो १८ गजमितान्तराले समाकृष्टयो रेखयोरुभयतो मिलति । अस्यान्तर्वर्तिस्थलं दण्ड-भूमिः (पेनल्टी एरिया) निगद्यते ।
===(ख) क्रीडोपकरणम्===
१-पाद-कन्दुकः
पङ्क्तिः ४३:
:(ग) उपानद-विषये विशिष्यैष नियमोऽस्ति यत् तयोर्निर्माणे कोमलस्य चर्मणः प्रयोगो भवेत्, कीलिका बहिर्निः सृता न भवेयुः, तलभागे प्राम्बचर्मखण्डाः (बार Barr) अथवा स्टड (Stud) अवरोधक्रीडाक्युताश्चर्मखण्डाः प्रयुज्येरन् । अग्रभागस्तीक्षणो नोचितः । कस्यापि धातोः प्रयोगेण च भवितव्यम् । उपानहोर्व्यासोऽर्ध-इंचमितस्तया पार्ष्णभागस्योच्चता पादोन-इंचतोऽधिका न कर्तव्या ।
:(घ) क्षेत्र-व्यूह-रचनायां
क्रीडकानां विभागोऽप्यत्र विशेषतया क्रियते । यथा-१-सीमरक्षकः, २-दक्षरक्षकः ३, वामरक्षकः, ४-दक्षार्धरक्षकः ५-मध्यार्धरक्षकः, ६- वामार्धरक्षकः, ७- अन्तर्वर्ती पार्श्वरक्षकः, ८-अन्तर्दक्षरक्षकः ९-बाह्यदक्षरक्षकः, १०-बाह्यवामरक्षकस्तथा ११-मध्याग्ररक्षकः । एतेषां स्थानान्यपि निशिचतानि भवन्ति यतःअ क्रीडने सौविध्यं भवति ।
:(ङ) क्रीडकानां नियमाः -१-२-३-२-३ इति नियमेन क्षत्र वतमानाः क्रीडार्थिनः कन्दुकं प्रत्याक्रमणाद्वारयितुं विपक्षसीम्नि प्रवेशयितुं च यतन्ते । तत्र प्रथमः सीमत्राता (गोलकीपरः) येन केनापि प्रकारेण कन्दुकं सीमप्रवेशाद् वारयति । तस्मै सर्वेषां शरीरावयवानां प्रयोग उचितो मन्यते । दण्डक्षेत्रमध्ये स्थितः स हस्ताभ्यां कन्दुकं स्प्र्ष्टुं शक्नोति किञ्च रक्षास्थले प्रविशन्तं प्रवेशयन्तं वा कन्दुकं सीमसम्भयोर्मध्ये स्थित्वा वारयति । एतदर्थं तस्मिन् प्रबुद्धता-दूरदर्शिता -स्फरत्ताशीघ्रकारिता -विरोधि-गति-विज्ञतादिगुणानां स्थितरावश्यकी वर्तते ।
:(च) रक्षक-क्रीडका
पङ्क्तिः ५७:
 
===(३) पादताडन-(किक्) पद्धतयः===
कन्दुकं स्वसहयोगिभ्यो दातुं विपक्षसीम्नि प्रवेष्टु च यानि पादताडनानि भवन्ति तानि ’किक्’'किक्’ नामभिः सम्बोध्यन्ते । तेषां प्रकार-नामानि यथा -
:(क) प्रलम्बताडनम् (टोइ किक) शान्तस्य कन्दुकस्योच्चैरथवा दूरे प्रेषणाय ।
:(ख) बाह्यस्तरताडनम् (आउटस्टेप किक्)-अस्य प्रयोगेणा कन्दुकोऽन्तेऽर्धव्यासरुपेणाग्रे वर्धते ।
पङ्क्तिः ७७:
:::(२) दिकपरिवर्तनं -जगाल (Jaggle) तथा
:::(३) अवयव -चालनं -फैन्ट (Feint) इति । एतैः प्रतिक्रीडकानां वञ्चनपूर्वकं कन्दुकस्याग्रे नयनमुद्दिष्टं भवति ।
:(८)आक्रमणाद् निर्वतनं ‘टेकलिंग’'टेकलिंग' (Tackling) कथ्यते । अस्यापि त्रयः प्राकारा विद्यन्ते । यथा (१) पुरोऽवरोधः फ्रन्ट ब्लाक (Front Block), (२) स्कन्धा-क्रमणम् साइड-वे (Side way) तथा (३) कटिवलनावरोधः ब्रैकर ब्लाक(Breaker) इति । इत्यमेव पादेनावरोधप्रक्रियां ट्रेप् (Trap) इति कथयन्ति । इमाः प्रक्रिया नवधा प्रयुज्यन्ते -पादतलेन, पादमध्येन, पादाग्रेण्, पादबाह्यभागेन, जङ्घया, पादभ्यां, वक्षसा, वक्षोभागादधोनयनेन शिरसा च ।सीमरक्षकोऽपि मुष्टया ताडनेन शयनपूर्वकं हस्तद्वारावरोधनेन च वैशिष्ट्यं लभते । एतेषां ज्ञानेन क्रीडकः पादकन्दुकक्रीडायां निपुणो भवति यशश्चार्जयति ।
 
==फुट्बाल्-क्रीडायाः श्लोकः==
"https://sa.wikipedia.org/wiki/पादकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्